________________
२६४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद-२, सूत्र -५० -५४
न्मत्वर्थीयेन सिद्धयति तृम्बाधनार्थं तु वचनम् । श्रष्टकादिति किम् ? असिता । णकारो वृद्धयर्थः । घकार उत्तरत्र कत्व-गत्वार्थः । अभिधानात् घिणन् अकर्मकेभ्यस्तेनेह न भवतिअरण्यं भ्रमिता, सकर्मकेभ्यस्तु यथादर्शनं दर्शयिष्यामः ।। ४९ ।।
युज- भुज- अज-त्यज-रञ्ज - द्विष- दुष दुह दुहा ऽभ्याहनः । ५. २.५० ॥
एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यः घिनण् भवति ।
युज्यते युनक्ति वा इत्येवंशीलो - योगी । भुङ्क्ते भुनक्ति भुजतीति वा- भोगी, भागी, कल्याणभागी, त्यागी, प्राणत्यागी, रागी "अकविनोश्च रज्जेः " (४-२-६० ) इति न लोपः । द्वेषी, दोषी, द्रोही, दोही, अभ्याघाती । अकर्मकादित्येव ? गां दोग्धा, शत्रूनभ्याहन्ता ।। ५० ।।
आङः क्रीड- मुषः ।। ५. २. ५१ ॥
शीलादौ सत्यर्थे वर्तमानाभ्यामाङः पराभ्यामाभ्यां घिनण् भवति ।
प्राक्रीडत इत्येवंशील:- आक्रोडी, प्रामोषी । शीलादिप्रत्ययान्ताः प्रायेण रूढिप्रकारा यथादर्शनं प्रयुज्यन्त इति उपसर्गान्तराधिक्ये न भवति । एवमुत्तरत्रापि । ५१ ।।
न्या० स० - आङ : क्रीडमुषः- शीलादिप्रत्ययान्ता इति ननु पूर्व आङमाङ यसाङमुषाक्रीडति पठित्वा घिनण्माहुस्तेषां विशिष्टस्वरूपोपादानान् नोपसर्गान्तराधिक्ये भवति । इह तु आङः पराभ्यामित्युच्यमाने उपात्तोपसर्गात् पूर्वमन्यस्मिन्नुपसर्गे सत्यपि व्यवधानाभावात् ततः परत्वस्य संभवादुपसर्गान्तराधिक्येऽपि भवतीत्याह - शीलादिप्रत्ययान्ता इत्यादि - शीलधर्मसाधुषु अर्थेषु ये प्रत्ययास्तदन्ता इमे प्रायेण रूढिशब्दप्रकारा यथा रूढिशब्दा रूढिविषय एव प्रवर्त्तन्ते तत्र च नियतरूपस्तथा इमेऽपि ये यथा प्रयोगे दृश्यन्ते यद्यदुपसर्गाः सोपसर्गा अनुपसर्गा वा ते तथैव प्रयोगानुसारेण प्रयोक्तव्याः, तथाहि - कामुक इति अनुपसर्ग एव प्रयुज्यते न सोपसर्गः, एवमागामुकः इति आङपसर्गपूर्व एव, न त्वनुपसर्वोऽन्योपसर्गपूर्वो वा इत्येवमन्यदपि द्रष्टव्यमिति नोपसर्गान्तराधिक्ये भवति ।
प्राच्च यम-यसः ॥ ५, २. ५२॥
शीलादौ सत्यर्थे वर्तमानाभ्यां प्रादाङश्च पराभ्यामाभ्यां घिनण भवति । प्रयच्छतीत्येवंशील:- प्रयामी, श्रायामी; प्रयासी, आयासी ।। ५२ ।। न्या० स०- प्राच्च यम - यथासंख्यं यद्यभिप्रेतं स्यात्तदा प्राङ इति क्रियेत । मथ-लपः ।। ५. २. ५३ ॥
।
प्रात् पराभ्यामाभ्यां शीलादौ सत्यर्थे वर्तमानाभ्यां घिनण् भवति । प्रमयतीत्येवंशीलः - प्रमाथी, प्रलापी ।। ५३ ।।
वेश्वः द्रोः ।। ५. २. ५४ ॥