________________
१८ ]
बृहद्वृत्ति - लघुन्याससंवलिते [ पाद- ३, सूत्र - ३९-४०
धर्मान्तरेण पितरमनुहरन्ति । अथवा गते - गमने ताच्छील्ये च वर्तमानाद्धरतेरात्मनेपदं भवति - पैतृकमश्वा अनुहरन्ते, तद्वद् गच्छन्ति तद्वच्छीलन्ति वेत्यर्थः ।। ३८ ।।
न्या० स०- गोगत - गम्यते ज्ञायते सदृशतया गतं कर्मेति व्युत्पत्त्या सादृश्यं तच्च तत् तेन वा ताच्छील्यं तस्मिन् । केवलोऽपि हरतिस्ताच्छील्ये उच्यते यथा पितुर्हरतीति परं गतताच्छील्येऽनुपूर्व एव, अनुपूर्वो हरतिर्गतताच्छील्य एवोदेतीति वैपरीत्यं न, नटो राममनुहरतीत्यादौ गतताच्छील्यं विनापि सादृश्ये अनुपूर्वकहरतेर्दर्शनात् एवं पितुरनुहरते इति प्रकारानुकार सादृश्यानामैकार्थ्येऽपि शब्दशक्तिस्वाभाव्यात् सादृश्ये कर्म नास्तीति संबन्धेऽत्र षष्ठी ।
तद्वद्गच्छन्तीति- पितुरागतं यथा भवति एवं गच्छन्तीत्यर्थे पैतृकशब्दात् क्रियाविशेषणादम्, तद्वदित्यत्र परार्थे प्रयुज्यमानः शब्दो वति विनापि वत्यर्थं गमयति । तद्बच्छीलन्तीति तद्वच्चारित्रिणो भवन्ति, शील समाधौ शीलण इत्यस्य वा णिचोऽनित्यत्वात् नात्र ताच्छील्यं पूर्वोक्तमुत्पत्तेः प्रभृतीत्यादि ।
1
पूजा ऽऽचार्यक- मृत्युत्क्षेप- ज्ञान-विगणन व्यये नियः ॥ ३.३.३१ ।।
पूजाssचार्यकभृतिषु यथासंख्यं कर्मकर्तृ धात्वर्थविशेषणेषु गम्यमानेषु, उत्क्षेपादिषु च धात्वर्थेषु वर्तमानान्नयतेः कर्तर्यात्मनेपदं भवति । पूजा - सन्मान:- नयते विद्वान् स्याद्वादे, प्रमाणव्यापारवित् स्याद्वादे जीवादीन् पदार्थान् युक्तिभिः स्थिरीकृत्य शिष्यबुद्धि प्रापयतीत्यर्थः, ते युक्तिभिः स्थिरीकृताः पूजिता भवन्ति । आचार्यस्य भावः कर्म वा ssचार्यकम् - मारणवकमुपनयते स्वयमाचार्यो भवन् माणवकमध्ययनाया ऽऽत्मसमपं प्रापयतीत्यर्थः । भृतिः वेतनम् - कर्मकरानुपयते, वेतनेनात्मसमीपं प्रापयतीत्यर्थः । उत्क्षेपः ऊर्ध्वं नयनम् - शिशुमुदानयते, उत्क्षिपतीत्यर्थः । ज्ञानं प्रमेयनिश्वयः - नयते तत्वार्थे तत्र प्रमेयं निश्चिनोतीत्यर्थः । विगणनम् ऋणादेः शोधनम् - मद्राः कारं विनयन्ते, राजग्राह्यं भागं दानेन शोधयन्तीत्यर्थः । व्ययो धर्मादिषु विनियोगः- शतं विनयते, सहस्त्र विनयते, धर्माद्यर्थं तीर्थादिषु विनियुङ्क्त इत्यर्थः । एतेष्विति किम् ? अजां नयति ग्रामम् । गिरवादफलदर्थ आरम्भः ।। ३६ ।।
न्या० स०- पूजाचार्यक० पूजादयोऽत्र नयतेविशेषणतयोपादीयमानाः केचित् साक्षाद्विशेषणभावमनुभवन्ति, केचित्तु पारंपर्येणेति विभज्याह - पूजेत्यादिना आचार्य कग्रहणात् आचार्य कर्म्म कुर्व्वन्नेवात्मनेपदविधौ कर्त्ता, अत एवाचार्य इति नोपात्तम् ।
कर्तृ स्थामूर्ताप्यात् । ३. ३. ४० ॥
कर्तृस्थममूर्त्तमाप्यं - कर्म यस्य तस्मान्नयतेः कर्तर्यात्मनेपदं भवति । श्रमं विनयते, क्रोधं विनयते - शमयतीत्यर्थः । कर्तृस्थेति किम् ? चैत्रो मैत्रस्य मन्युं विनयति । अमूर्तेति किम् ? गडुं विनयति, घट्ट विनयति | आप्येति किम् ? बुद्धया विनयति । 'श्रमं विनयते'