________________
पाद-३, सूत्र-३६-३८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[१७
आशिषि नाथः ॥ ३. ३. ३६ ॥
पाशिष्येवार्थे वर्तमानानाथते: कर्तर्यात्मनेपदं भवति । सर्पिषो नाथते, मधुनो नाथते-सपिर्मे भूयान्मधु मे भूयादित्याशास्ते इत्यर्थः। प्राशिष्येवेति नियमः किम् ? याच्नयां मा भूत-मधु नाति । ङित्करणं त्वस्यानप्रत्ययार्थम् ॥ ३६॥
भुनजोत्राणे ॥ ३. ३. ३७॥
त्राणाव-पालनादन्यत्रार्थे वर्तमानाद् भुनक्तेः कर्तर्यात्मनेपदं भवति । प्रोदनं भङ्क्ते, परिभुङ्क्ते । अत्रारण इति किम् ? महीं भुनक्ति-पालयतीत्यर्थः; "अम्बरीषश्च नाभागो बुभुजाते चिरं महीम्" इत्यत्र तु न पालनं भुजेरर्थः, किन्तु पालननिमित्तक उपकारः, धातूनामनेकार्थत्वात , पालनेन महीमुपकृतवन्तौ मह्याश्रयं फलं स्वीकृतवन्ताविति वेत्यर्थः । उभयपदिनमेनमन्ये मन्यन्ते । भुनजिति श्ननिर्देश "भुजोत कौटिल्ये" इत्यस्य निवृत्त्यर्थः-ओष्ठौ निर्भुजति, कुटिलयतीत्यर्थः ।। ३७ ॥ न्या० स०-भुनजो०:
अरिषड्वर्गमुत्सृज्य, जामदग्न्यो जितेन्द्रियः ।
अम्बरीषश्च नाभागो, बुभुजति चिरं महीम् ॥१॥ अमति गच्छति प्रतिष्ठां 'अमेर्वरादिः' ५५५ (उणादि) इति ईषप्रत्यये अम्बरीषो राजा, किं भूतो ? नाऽभागः, न विद्यते भागः पुण्यमस्य, न अभागो नाभागः, यद्वा न भाग: पिता देवतास्य 'देवता' ६-२-१०१ इत्यण् ।
भूजोंद कौटिल्ये इतीति-अथ * निरनुबन्धग्रहणे * इति न्यायादेवास्य न भविष्यति ? सत्यं, जात्याश्रयणेऽत्रापि स्यात् , न्यायानामनित्यत्वाद् वा ।
हगो गतताच्छील्ये ॥ ३. ३. ३८ ॥
गतं प्रकारः सादृश्यमनुकरणमित्येकोऽर्थः, तच्छोलमस्य तच्छोलस्तस्य भावस्ताच्छील्यम् , उत्पत्तेः प्रभृत्याविनाशात् तत्स्वभावता। हरतेः प्रकारताच्छील्येऽथें वर्तमानात् कर्तत्मिनेपदं भवति । शब्दशक्तिस्वाभाव्याच्चानुपूर्व एव हरतिर्गतताच्छील्ये वर्तते । पैतृकमश्वा अनुहरन्ते, मातृकं गावोऽनुहरन्ते, पितुरागतं मातुरागतं गुणविषयं कियाविषयं वा सादृश्यमविकलं शीलयन्तीत्यर्थः । एवं-पितुरनुहरते, पितरमनुहरते; मातुरनुहरते, मातरमनुहरते। गतग्रहणं किम् ? पितुर्हरति, मातुहरति । ताच्छील्य इति किम् ? नटो राममनुहरति-नटो हि कञ्चिदेव कालं राममनुकरोतीत्यसातत्ये न भवति । यद्वा गमनं गतं, तस्य पित्रादेः शीलमस्य तच्छीलस्तस्य भावस्ताच्छील्यम्, गतेन-गमनेन ताच्छील्यं गतताच्छील्यं,तस्मिन्नर्थे वर्तमानाद्धरतेः कर्तर्यात्मनेपदं भवति । पैतृकमश्वा अनुहरन्ते-पितुरागतं गमनमविच्छेदेन शीलयन्तीत्यर्थः । एवं-पितुरनुहरते, पितरमनुहरते । गतताच्छील्य इति किम् ?