________________
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-३३-३५
न्या० स०-समस्तृती०-धातोस्तृतीय या योगाभावादित्याह तृतीयान्तेनेति-उभौ लौकी संचरसीति-यद्यप्यत्र विद्यया तपसा वेत्यर्थादिह तृतीयान्तं गम्यते तथापि तृतीययेति सहयोगे तृतीया साक्षाद्योगप्रतिपत्यर्थं न गम्यमाने इति प्रत्युदाह्रियतेऽन्यथा करणमन्तरेण क्रियासिद्धेऽभावाद् व्यावृत्तिरेव न घटत इति भावः, न हि काचित् क्रिया करणमन्तरेण भवतीति । सह घनेन देवदत्तः संचरतीत्यत्र तु विद्यमानार्थतायां चरतेस्तृतीयान्तेन योगाभाव एव, तत्र हि तृतीयान्तं कर्जव युक्तं न संचरतिना, न हि तद्धनं चैत्रेण सह संचरतीति ।
क्रीडोऽकूजने ॥ ३. ३. ३३ ॥
कजनमव्यक्तः शब्दः ततोऽन्यस्मिन्नर्थे वर्तमानात संपूर्वात् क्रोडेः कर्तर्यात्मनेपदं भवति । संक्रीडते, संक्रोडमारणः, रमते इत्यर्थः । सम इत्येव ? क्रीडति । अकूजन इति किम् ? संक्रीडन्ति शकटानि, अव्यक्तं शब्दं कुर्वन्तीत्यर्थः ।। ३३ ।।
अन्वाङ्परेः ॥ ३. ३. ३४ ॥
'अनु आङ् परि' इत्येतेभ्य उपसर्गेभ्यः परात् क्रोडतेः कतर्यात्मनेपदं भवति । अनुक्रीडते, अनुक्रीडमाणः । आक्रीडते, आनोडमानः। परिक्रीडते, परिक्रीडमानः । उपसर्गादित्येव ? माणवकमनुक्रीडति. माणवकेन सह क्रीडतीत्यर्थः, धातुना अनोरसम्बन्धाद् वा न भवति । एवं उपरिक्रोडति ॥ ३४ ॥
न्या० स०-अन्वाङ्प०-माणवकमनुक्रीडतीति-अत्रानोर्माणवकेन योगादुपसर्गत्वाभावादपसर्गानवृत्तरत्रनात्मनेपदम । अनोरसंबन्धाद वेति-उपसर्गनिरपेक्षमिदमक्तं कोऽर्थः ? उपसर्गाननुवृत्तावप्यऽन्वाङ परेरिति आवृत्त्या संबन्धषष्ठ्या आश्रयणादनोर्धातुना संबन्धाभावात्तदभाव इति।
शप् उपलम्भने ॥ ३. ३. ३५ ॥
उपलम्भनेऽर्थे वर्तमानाच्छपतेः कर्तर्यात्मनेपदं भवति । उपलम्भनं-प्रकाशनं ज्ञापनम् । मैत्राय शपते, मैत्रं कश्चिदर्थ बोधयतीत्यर्थः, मैत्रमेवैवंभूतोऽसावित्यन्यस्मै प्रकाशयतीत्येके । अथवा स्वाभिप्रायस्य परत्राविष्करणमुपलम्भनं शपथ इति यावत् । मैत्राय शपते इति, वाचा मात्रादिशरीरस्पर्शनेन मैत्रं स्वाभिप्रायं बोधयतीत्यर्थः । प्रोषितस्य भावाऽभावोपलब्धौ कस्यचिदर्थस्यासेवनं चोपलम्भनम्-मंत्राय शपते इति, प्रोषिते मैत्रे तस्य भावेऽभावे चोपलब्ध सति तदनुरूपं किञ्चिदनुतिष्ठतीत्यर्थः । उपलम्भल इति किम् ? मैत्रं शपति, आकोशतीत्यर्थः ॥ ३५ ॥
न्या० स०-शप उ०--प्रकाशयतीत्येके इति-अस्मिन् व्याख्याने मैत्रशब्दान्मतान्तरेणैव चतुर्थी प्रयोज्यत्वाभावान्मत्रस्य ।