________________
पाद-३, सूत्र-२९-३२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ १५
समः क्ष्णोः ३. ३. २१ ॥
समः पराव क्ष्णौतेः कर्तर्यात्मनेपदं भवति । संक्ष्णुते शस्त्रम् । सम इति किम् ? .क्ष्णौति । उपसर्गादित्येव ? आयसं क्ष्णौति ।। २९ ।।
- न्या० स०-समः क्षणोः-ननु समो गमृच्छित्यत्रैव क्ष्णुग्रहणं क्रियतां किं पृथगारम्भेण ? नैवं, तत्र कर्मण्यसतीत्यनुवर्तनात् , इह तु संक्ष्णुते शस्त्रमिति सकम्मणोऽपि भवति।
अपस्किरः ।। ३. ३. ३० ॥
अपपूर्वात् किरतेः सस्सट्कात् कर्तर्यात्मनेपदं भवति । अपस्किरते वृषभो हृष्टः, अपस्किरते कुक्कुटो भक्ष्यार्थी, अपस्किरते श्वा आश्रयार्थी “अपाच्चतुष्पात् पक्षि-शुनि हृष्टाऽन्नाऽऽश्रयार्थे" [ ४-४-६६ ] इति स्सट् । सस्सटकनिर्देशादिह न भवति-अपकिरति वृषभः । अपेति किम् ? उपस्किरति ।। ३० ।।
न्या० स०-अपस्किर:-वृषभो हृष्ट इति-'हृषच तुष्टाविति' विस्मयार्थो विवक्ष्यते ततो 'हषेः केश' ४-४-७६ इति इड्विकल्प:, अनेकार्थत्वात् 'हषू अलीके' इत्येषोऽपि हर्षे ततस्तस्य क्ते रूपम् । तुषं हृषच तुष्टावित्यप्यूदितं मन्यते नन्दी। हृष्टिरस्यास्तीति 'अभ्रादिभ्यः ७-२-४६ इत्यप्रत्ययो वा, अन्यथा इट् स्यात् ।
उदश्वरः साप्यात् ।। ३. ३. ३१ ॥
उत्पूर्वाच्चरतेः साप्याव-सकर्मकात कर्तर्यात्मनेपदं भवति । गुरुवचनमुच्चरते, मार्गमुच्चरते, व्युत्क्रम्य गच्छतीत्यर्थः; प्रासमुच्चरते, सक्तूनुच्चरते-भक्षयतीत्यर्थः । उद इति किम् ? चारं चरति । साप्यादिति किम् ? धूम उच्चरति, शब्द उच्चरति, उर्ध्व गच्छतीत्यर्थः ॥ ३१॥
न्या० स०-उदश्चरः- व्युत्क्रम्य गच्छतीति-ननु चैवमपि व्युत्क्रमणस्य क्रियान्तरस्य धात्वन्तरार्थत्वान्न तत्कर्मणा चरिः सकर्मक इत्युदाहरणायोग: ? उच्यते, चरिरेवात्र व्युत्क्रमणोपसर्जनायां विशिष्टायां गतौ वर्तते, यथा 'जीव प्राणधारणे' इति जीवतिरेव विशिष्टे धारणे इति, तव्युत्क्रमणं चरावन्तर्भूतमिति, चरेरेवार्थ इति सकर्मक इत्यदोषः, प्रत्युदाहरणे तु गतिमात्रे वर्त्तते न व्युत्क्रमणाङ गे धातूनामनेकार्थत्वादिति ।।
समस्तृतीयया ॥ ३. ३. ३२॥ - समः पराच्चरतेस्तृतीयान्तेन योगे सति कर्तर्यात्मनेपदं भवति । अश्वेन संचरते, रथेन संचरते । तृतीययेति किम् ? उभौ लोको संचरसि, इमं च मुंच देवल । किं त्वं करिष्यसि रथ्यया संचरति चैत्रोऽरण्ये ? इत्यत्र तु तृतीयान्तेन योगाभावान्न भवति ॥३२।।