________________
पाद-३, सूत्र-४०-४५] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः ।
[१९
इत्यादौ श्रमापगमादेः फलस्य कर्तृ समवाययित्वात सिद्ध आत्मनेपदे नियमार्थ वचनम् , व्यवेच्छेद्य च प्रत्युदाहरणम् । शमयतिक्रियावचनादेव च नयतेरात्मनेपदं दृश्यते न प्रापणार्थात, यथा
"शिवमौपयिकं गरीयसी, फलनिष्पत्तिमदूषितायतिम् ।
विगणय्य नयन्ति पौरुष, विहितक्रोधरया जिगीषवः ॥ १॥" [ किराते ] यथा च कोपं शमं नयति, मन्यु नाशं नयति, प्रज्ञा प्रवृद्धि नयति, बुद्धि क्षयं नयति ॥ ४० ॥
न्या० स०-कर्तृ स्था०:-नियमार्थमिति-तेनात्र सूत्रे फलवत्तैव विवक्ष्यते । व्यवच्छेद्यमिति-तेन प्रत्युदाहरणेषु फलवत्त्वविवक्षायामऽपि नात्मनेपदम् । . . .
शदेः शिति ॥ ३. ३. ४१ ॥ . शदेः शिद्विषयात् कर्तर्यात्मनेपदं भवति । शीयते । शिलीति किम् ? शत्स्यति ॥४१॥ मियतेरद्यतन्याशिषि च ॥ ३. ३. ४२ ॥
म्रियतेरद्यतन्याशीविषयाच्छिद्विषयाच्च कर्तर्यात्मनेपदं भवति । अमृत, मृषीष्ट, म्रियते, म्रियेत, म्रियताम् , अम्रियत । अद्यतन्याशिषि चेति किम् ? ममार, मर्तासि, मरिष्यति, अमरिष्यत् । तिन्निर्देशाद् यङ्लुपि न भवति-मर्मति ।। ४२॥
क्यो नवा ॥ ३. ३. ४३ ॥ .डाउलोहितादिभ्यः क्यषित् वक्ष्यते, तदन्ताद्धातोः कर्तर्यात्मनेपदं भवति वा। पटपटायति, पटपटायते; लोहितायति, लोहितायते; निद्रायति, निद्रायते ।। ४३ ॥
द्यु भ्योऽद्यतन्याम् ॥ ३. ३, ४४ ॥ ___ बहुवचनं गणार्थम् । धुतादिभ्योऽद्यतनीविषये कर्तर्यात्मनेपदं वा भवति । व्यधुतत् , व्यद्योतिष्ट; अरुचत् , अरोचिष्ट । अद्यतन्यामिति किम् ? द्योतते । धुति १ रुचि २ घुटि ३ रुटि ४ लुटि ५ लुठि ६ श्विताङ् ७ मिमिदाङ् ८ जिश्विदाङ्, निष्विदाङ् १० शुभि ११ क्षुभि १२ णभि १३ तुभि १४ सम्भूङ् १५ भ्रसूङ् १६ स्रसूङ् १७ ध्वंसूङ् १८ वृतूङ् १६ स्यन्दौङ् २० वृधूङ् २१ शृधूङ २२ कृपौङ् २३ इति द्युतादिः । प्राप्तविभाषेयम् ॥४४॥
वृद्भ्यः स्यसनोः ॥ ३. ३. ४५ ॥
बहुवचनं पूर्ववत् , वृतादयो द्युताद्यन्तर्गताः पञ्च, तेभ्यः स्यकारादिप्रत्यये सन्प्रत्यये विषये च कर्तर्यात्मनेपदं भवति वा । वृतूङ् १-वय॑ति, वतिष्यते, अवय॑त् , प्रतिष्यत,