________________
२५८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-२, सूत्र-२६-७२
न्या० स०-धारीडो-इङ् इत्यात्मनेपदित्वात् फलवत्कर्तरि घोरश्च सामान्य- ।
तुन प्राप्नोतीति सूत्रं कर्त्तव्यम् , तथापि प्रत्ययान्तरं मा विधायि शतरेव विधीयतां सूत्रसामर्थ्यादिङ आत्मनेपदिनोऽपि भविष्यति ? नैवं,-इङ आत्मनेपदित्वेऽपि विधानसामर्थ्यात् शतृः स्यात् धारेस्तु फलवत्कर्तरि अकृच्छ एवार्थे शतृरिति नियमार्थः स्यात्, यद् वा धारोत्युभयपदी ततश्च यद्युभयपदिनामऽकृच्छ्रे शतृः स्यात् , तदा धारेरेवेति नियमः
स्यात् ।
प्राचाराङ्गमिति-आचारप्रतिपादकमङ्गमाचाराङ्ग, आचर्यते शोभनं कर्मानेन 'व्यञ्जनाद् घन' ५-३-१३२ आचारश्च तदङ्ग चेति वा।
द्रुमपुष्पीयमिति-द्रुमपुष्पमधिकृत्य कृतो ग्रन्थः, 'शिशुक्रन्दादिभ्य ईयः' ६-३-२००, अथवा द्रुमपुष्पस्य तुल्यं 'काकतालीयादयः' ७-१-११७, अथवा द्रुमपुष्पमत्रास्ति 'सूक्तसाम्नोरीयः' ७-२-७१।
कृच्छण धारयतीति-अत्र शत्रानशावपि भवतः। यतिधर्ममिति-यमनं यतं तदस्यास्ति इन् यतिनो धर्मः, यदा तु यतिधातोरोणादिक इप्रत्ययस्तदा यतेर्द्धर्मः ।
सुग-दिषा-ऽर्हः सत्रि-शत्रु-स्तुत्ये ॥ ५. २, २६ ॥
सत्यर्थे वर्तमानाव सुनोद्विषोऽर्हश्च धातोर्यथासंख्यं सत्रिणि शत्रौ स्तुत्ये च कर्तरि अतृश्-प्रत्ययो भवति ।
___ सत्री-यजमानः, सर्वे सुन्वन्तः, यज्ञस्वामिन इत्यर्थः । चौरं द्विषन् , चौरस्य द्विषन् , शत्रुरित्यर्थः । पूजामहन् , प्रशस्य इत्यर्थः । एस्विति किम् ? सुरां सुनोति, भार्या द्वेष्टि परं पश्यन्तीम् , वधमर्हति चौरः ॥२६॥
न्या० स०-सुद्वि-नन्वेषु शतृप्रत्यये अतृश्प्रत्यये वा रूपसाम्यान्न कश्चिद्विशेषः? उच्यते, प्राकृते शत्रानशौ इति सूत्रे विशेषोऽस्ति ।
तृन् शील-धर्म-साधुषु ॥ ५. २. २७॥ शोले धर्मे साषौ च सत्यर्थे वर्तमानाद् धातोस्तृन् प्रत्ययो भवति ।
शीले-कर्ता कटम् , वदिता जनापवादान्, करणं वदनं चास्य शीलमित्यर्थः । धर्म:कुलाघाचारः, तत्र-वधूमूढां मुण्डयितारः श्राविष्ठायनाः, श्राद्ध सिद्धमन्नमपहर्तार अाह्वरकाः, मुण्डनादि तेषां कुलधर्म इत्यर्थः । साधौ-गन्ता खेलः, कर्ता विकटः, साधु गच्छति साधु फरोतीत्यर्थः ।
नप्तृ-नेष्ट-त्वष्१क्षत्तृ-होतृ-पोतृ-प्रशास्तृशब्दा औणादिकाः पितृमात्रादिवत् , प्रत एवैषामाविधौ पृथमुपादानम् । शीलादिष्विति किम् ? कर्ता कटस्य । बहुवचनं "सन्-भिक्षाशंसेरुः" (५-२-३३) इत्यादौ यथासंस्यपरिहारार्थम् । नकारः सामान्यग्रहणविघातार्थः ॥२७॥