________________
पाद - २, सूत्र -२८-३३ ] श्रीसिद्ध हेमचन्द्रशब्दानुशासने पंचमोऽध्यायः ।
[ २५९
न्या० स०- - तृन्शील - श्राविष्ठायना इति श्रूयतेऽनेन 'पुन्नाम्नि' ५ -३ - १३० इति घः, श्रवोऽस्त्यासां श्रववत्यः, अतिशयेन श्रववत्य इति विगृह्य इष्ठप्रत्यये पुंभावे 'विन्मतोः ' ७-४-३२ इति लुपि श्रविष्ठा धनिष्ठास्ताभिश्चन्द्रयुक्ताभिर्युक्तः कालः, 'चन्द्रयुक्त' ६-२-६ इत्यणि लुपि श्रविष्ठास्तासु जाता 'श्रविष्ठाषाढा' ६-३- १०५ इति अ:, श्रविष्ठाया अपत्यानि वृद्धानि अश्वादेरायनत्र' ६-१-४९ ।
भाज्यलंकुग-निराकृग-भू-सहि-रुचि वृति वृधि चरि-प्रजना- पत्रप
"
इष्णुः ।। ५. २. २८ ॥
'एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य इष्णुः प्रत्ययो भवति ।
भ्राजनशीलो भ्राजनधर्मा साधु भ्राजते वा भ्राजिष्णुः, "भ्राजिष्णुना लोहितचन्दनेन”,अलंकृग्-अलंकरिष्णुः, निराकृग् - निराकरिष्णुः, भू-भविष्णुः, "सर्वेषां भविष्णुनां न्यानां न तु स योग्य" । सह - सहिष्णुः रुच्- रोचिष्णुः, वृत्-वर्तिष्णु, वृष्- वधिष्णुः, चर्-चरिष्णुः, प्रजन्- प्रजनिष्णुः, अपत्रप् - अपत्रपिष्णुः । भ्राजेर्नेच्छन्त्येके ।। २८ ।।
उदः
पचि- पति-पदि-मदेः इः ।। ५.२.२१ ॥
उत्पूर्वेभ्य एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य इष्णुर्भवति ।
उत्पचिष्णुः, उत्पतिष्णुः, उत्पदिष्णुः, उन्मदिष्णुः । पदेर्नेच्छन्त्यन्ये ॥ २६ ॥
ककार:
भू- जेः क् ॥ ५. २. ३० ॥
शीलादौ सत्यर्थे वर्तमानाभ्यां भू-जिभ्यां ष्णुक् प्रत्ययो भवति । भूष्णुः, जिष्णुः । कितकार्यार्थः ॥ ३० ॥
स्था-ग्ला-म्ला-पचि-परिमृजि क्षेः स्नुः ।। ५. २. ३१ ॥
एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यः स्नुप्रत्ययो भवति ।
स्थास्नुः, म्लास्नुः पक्ष्णुः, परिमाणु :, क्षेष्णुः । म्लादिभ्यः केचिदेवेच्छन्ति ॥३१॥ न्या० स०-स्थाग्लाम्ला - परिमाणु रिति- 'धूगौदित: ' ४-४- ३८ इत्यनेन विकल्पे - प्रत्यये परिमाजिष्णुरित्यपि ।
क्षेष्णुरिति- ' क्षिष्श् इत्यस्य न सानुबन्धत्वात् ।
त्रसि- गृधि - धृषि - क्षिपः क्नुः ॥ ५. २. ३२ ॥
शीलादौ सत्यर्थे वर्तमानेभ्य एभ्यः क्नुः प्रत्ययो भवति । त्रस्नुः, गृध्नुः, घुष्णुः,
"
सन्-भिक्षाऽऽशंसेरुः ।। ५. २. ३३ ॥
क्षिप्नुः ||३२||