________________
श्री सिद्ध हेमचन्द्र शब्दानुशासने पंचमोऽध्यायः
सत्यर्थे वर्तमानाद् वेत्तेः क्वसुप्रत्ययो वा भवति, पक्षे यथाप्राप्तम् ।
विद्वान्, साधुस्तत्त्वं विद्वान् विदन् वेत्ति । विदुषा कृतम्, विदता कृतम् । हे विद्वन् !, हे विदन् ! | वैदुषः, वैदतः । विद्वद्भक्तिः । विदद्भषितः । विद्वानास्ते, विदन्नास्ते । विद्वाल्भते विदल्लभते । द्वितीयाद्यन्तपदसामानाधिकरण्यादिषु पूर्ववदनन्वयादेव न वर्तमाना । ककार : कितकार्याथः । उकारो ङयर्थः ॥२२॥
पाद - २, सूत्र - २३-२५ ]
[ २५७
न्या० स० वा वेत्तेः - 'असरूपोऽपवादेन' ५ - १ - १६ इत्यनेन विकल्पे सिद्धे वाग्रहणमत्र प्रकरणे असरूपविधेर्लक्ष्यानुरोधार्थं, अत एव 'वयः शक्ति' ५ - २ - १४ इत्यत्रानभिधानान्न वासरूपः शतृरित्युक्तम् ।
कि कार्याद्यर्थ इति - आदिपदात् 'तृन्नुदन्त' २-२ - ९० इत्यादि ।
पूङ् यजः शानः ।। ५. २. २३ ॥
सत्यर्थे वर्तमानाभ्यां पवति यजिभ्यां परः शानः प्रत्ययो भवति, कृत्त्वात् कर्तरि ।
पवते - पवमानः, मलयं पवमानः । यजति यजते वा यजमानः । श्रानशा योगे न षष्ठीसमासो, न च यजेरफलवति कर्तरि सोऽस्तीति वचनम्, एवमुत्तरत्रापि । शकारः शित्कार्यार्थः ।। २३ ।
न्या० स०- पू ्यजः- मलयं पवमान इति - 'तृन्नुदन्त' २-२ - ९० इत्यनेन आनद्वारा कर्मषष्ठीनिषेधे मलयस्य संबन्धी पवमान इति संबन्धषष्ठीसमासः । ननु पूङ आत्मने. पदित्वात् यजेरप्युभयपदित्वात् फलवत्कर्त्तरि 'शत्रानशौ' ५-२-२० इत्यनेनैव वानश् सिद्ध: किमनेन ? इत्याह-प्रानशा योगे न षष्ठीसमासः - तृप्तार्थेति निषेधात् ।
वयः शक्ति-शीले ।। ५. २. २४ ॥
सत्यर्थे वर्तमानाद् धातोर्वयः - शक्ति - शीलेषु गम्यमानेषु शानो भवति, वयः प्राणिनां
कालकृता बाल्याद्यवस्था ।
कतीह शिखण्डं वहमानाः, स्त्रियं गच्छमानाः । शक्तिः - सामर्थ्यम्, कतीह हस्तिनं निघ्नाना:, समश्नानाः । शीलं स्वभावः, कतीहात्मानं वर्णयमानाः परान्निन्दमानाः । अनभिधानान्न वासरूपः शतृः ॥ २४ ॥
धारीडोऽकृच्छेऽतृशू ।। ५. २. २५ ॥
अकृच्छः-सुखसाध्यः, अकृच्छे सत्यर्थे वर्तमानाद् धारेरिङश्च परोऽतृश् प्रत्ययो
भवति ।
2 धारयन् आचाराङ्गम, अधीयन् द्रुमपुष्पीयम् । अकृच्छ इति किम् ? कृच्छ्रेण धारयति यतिधर्मम्, कृच्छ्रे णाधीते पूर्वगतम् । इङ आनशि प्राप्ते घारेरुभयप्राप्तौ वचनम् । वासरूपोऽपि नेष्यत एव ।। २५ ।।