________________
२५० ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पाद - २, सूत्र - ७-६
रात्रौ भूतेऽर्थे वर्तमानाद् वसतेर्धातोर्ह्य स्तन्यपवादोऽद्यतनी विभक्तिर्भवति, अन्त्य - यामास्वप्तरि-स चेदर्थो यस्यां रात्रौ भूतस्तस्या एवान्त्ययामं व्याप्याऽस्वप्तरि कर्तरि वर्तते, अद्य तेनैवान्त्ययामेनावच्छिन्नेऽद्यतने चेत् प्रयोगो भवति नाद्यतनान्तरे ।
न्याय्ये प्रत्युत्थाने प्रत्युत्थितं कश्चित् कंचिदाह- क्व भवानुषितः ? स आह- श्रमुत्रावासमिति । रात्र्यन्त्ययामे तु मुहूर्तमपि स्वापे ह्यस्तन्येव श्रमुत्रावसमिति ।। ६ ।।
न्या० स० - रात्रौ वसो०- प्रमुत्रावात्समिति - उपाध्यायस्त्वाह- रात्रेश्च चतुर्थे यामे यदा वाक्यं प्रयुक्ते तदाऽमुत्रावात्समिति, तस्यातिक्रान्तरात्रिप्रहरत्रयमनद्यतनमिति ह्यस्तनीप्रसङ्ग यदा प्रयोक्ता सकलमतिक्रम्य रात्रिप्रहरत्रयं जागरितवान् तदाऽद्यतनी, यदा सुप्त्वा प्रयुङ्क्ते तदा ह्यस्तन्येव । यत्सूत्रं वसेर्लुङ रात्रिशेषे जागरणसंतताविति तन्मतसंग्रहार्थमिदं सूत्रं व्याख्येयम् ।
स्वप्तर्यऽद्येति-कोऽर्थः ? अन्त्ययामप्रयोगे क्रियमाणे अन्त्ययामेति लुप्तसप्तम्येकवचनान्तं पदम् ।
अनद्यतने ह्यस्तनी ॥ ५. २. ७ ॥
आ न्याय्यादुत्थानादा न्याय्याच्च संवेशनादहरुभयतः सार्धरात्रं वा - अद्यतनः काल:, तस्मिन्नसति भूतेऽर्थं वर्तमानाद् धातोर्ह्यस्तनी विभक्तिर्भवति । प्रकरोत् अहरत् । अनद्यतन इति किम् ? अकार्षीत् ।। ७ ।।
ख्याते दृश्ये ॥ ४. २. ८॥
ख्याते -लोकविज्ञाते, दृश्ये प्रयोक्तुः शक्यदर्शने, भूतेऽनद्यतनेऽर्थे वर्तमानाद् धातोह्यस्तनी विभक्तिर्भवति, परोक्षापवादः ।
,
अरुणत् सिद्धराजोऽवन्तीन् श्रजयत् सिद्धः सौराष्ट्रान् । ख्यात इति किम् ? चकार कटं चैत्रः । दृश्य इति किम् ? जघान कंसं किल वासुदेवः । अनद्यतन इत्येव ? उदगादद्यादित्यः ।। ८ ।
न्या० स० ख्याते ह- प्रयोक्तुः शक्यदर्शने इति प्रयोक्तुश्च स एव दृश्यः यः प्रयोक्तृकालेऽनतिविप्रकर्षेण वृत्तः स्यात्, प्रयोक्तुश्चान्यत्र व्यासक्तत्वेन तद्दर्शनाभावात् परोक्षत्वं, तस्यार्थस्य परं स यदि तत्र व्रजति तदा पश्यत्येव तस्मिन्नर्थे ह्यस्तनी, एवं च यस्मिन् कालेऽर्थो वृत्तस्तत्कालभावी पुरुषः कुर्व्वन् दुष्यति, यतोऽर्थभवनकाले तस्य पुरुषस्य तदर्थदर्शनयोग्यतायाः सद्भावात्, तथा जघान कंसं किल वासुदेव इत्यत्रापि यदि वघकालभावी प्रयोक्ता प्रयोगं कुरुते तदा तत्रापि ग्रहन्निति भवति, यतस्तदा तस्यापि दृश्यत्वादिति, तदुक्तं -
परोक्षे लोकविज्ञाने, प्रयोक्तुः शक्यदर्शने । ह्यस्तने ह्यस्तनी प्रोक्ता, चैत्रो नृपमहन्निति ।
अयदि स्मृत्यर्थे भविष्यन्ती ॥ ५. २. ९ ॥