________________
पाद-२, सूत्र-३-६ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[ २४९
न्या० स०-तत्र क्वसु-न लोप इति-अन्यथा 'इन्ध्यसंयोगात्' ४-३-२१ इत्यसंयोगान्तादेव कित्त्वेऽत्र नलोपो न स्यात् । प्रत्यय एव नेष्यते इति-तन्मते कानो नास्तीत्यर्थः। परोक्षामात्रप्रतिपत्त्यर्थमिति-अन्यथा 'श्रुसद' ५-२-१ इति विहितपरोक्षाविषय एव स्यात् , तेभ्य एव भूतमात्रे विधानान्न तु 'परोक्षे' ५-२-१२ इति विहितपरोक्षाया विषये । इत्यादि सिद्धमिति-भूताधिकारे हि अनुवर्तमानेऽपरोक्षे एवातीते स्यात्, परोक्षे तु परत्वात् परोक्षा स्यादित्युभयोरप्यर्थः संगृह्यते, तेन पपाचेति वक्तव्ये पेचिवानित्यादि सिद्धम् ।
वेयिवदनाश्वदनूचानम् ॥ ५. २.३॥ एते शब्दा भूतेऽर्थे क्वसु-कानान्ताः कर्तरि वा निपात्यन्ते ।।
इणः क्वसुनिपात्यते-ईयिवान् , समोयिवान् , उपेयिवान् । तथा नपूर्वादश्नातेः क्वसुरिडभावश्च निपात्यते-अनाश्वान् । तथा वचे गादेशाद् वाऽनुपूर्वात् कानो निपात्यतेअनूचानः । निपातनस्येष्टविषयत्वात् कर्तुरन्यत्र अनक्तमित्यायेव भवति । ब्रूग एवेच्छन्त्यन्ये । वावचनात् पक्षेऽद्यतन्यादयोऽपि-प्रगात, उपागात् , उपत् , उपेयाय; नाऽऽशीत् , नाऽऽश्नात् , नाऽऽश, अन्ववोचत् अन्वब्रवीत्, अन्ववक , अनूवाच ॥ ३॥
न्या० स०-वेयिवदना०-'तत्र क्वसु', ५-२-२ इत्यनेन परोक्षाविषये क्वसुकानौ विहिताविति ह्यस्तन्यादिविषये न स्यातामिति निपातनं, अत एवाऽत्राऽगात् ऐत् इत्याद्यपि वाक्यं क्रियते । अनुक्तमित्याद्येवेति-अत्र कानो न भवति । उपेयायेति-नामिनोऽकलिहले.' ४-३-५१ इति वृद्धौ ‘पूर्वस्यास्वे' ४-१--३७ इति पूर्वस्येयादेशे च रूपम् ।
अद्यतनी ।। ५. २.४॥ भूतेऽर्थे वर्तमानाद् धातोरद्यतनी विभक्तिर्भवति । अहार्षीत् अकार्षीत् ॥४॥ विशेषाविवक्षा-व्यामि ॥ ५. २. ५ ॥
अनद्यतनादिविशेषस्याविवक्षायां व्यामिश्रणे च सति भूतेऽर्थे वर्तमानाद् धातोरद्यतनी विभक्तिर्भवति ।
अकार्षीत् , अहार्षीत्, अगमाम घोषान् , अपाम पयः, अजैषीत् गर्तो हूणान् , रामो वनमगमत् । सतोऽप्यत्र विशेषस्याविवक्षा, यथा-अनुदरा कन्या, प्रलोमिका एडकेति । व्याभिश्रे-प्रद्य ह्यो वाऽभुक्ष्महि ।
विशेषाविवक्षेति किम् ? अगच्छाम घोषान् , अपिबाम पयः, अजयद् गर्तो हूणान्, रामो वनं जगाम । हस्तन्यादिविषयेऽप्यद्यतन्यथं वचनम् ॥५॥
न्या० स०-विशेषाविवक्षा-अनद्यतनादिविशेषस्याऽविवक्षायामिति-आदिपदात् परोक्षपरिग्रहः । .
रात्रौ वसोऽन्त्ययामास्वप्तर्यद्य ।। ५. २. ६ ॥