________________
पाद-२, सूत्र १०-१२ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२५१
स्मृत्यर्थे धातावुपपदे सति भूतानद्यतनेऽर्थे वर्तमानाद् धातोर्भविष्यन्ती विभक्तिर्भवति, अयदि-न चेद् यच्छन्दः प्रयुज्यते ।
अभिजानासि देवदत्त ! कश्मीरेषु वत्स्यामः, स्मरसि साधो ! स्वर्गे स्थास्यामः, एवं-बध्यसे चेतयसे अध्येष्यवगच्छसि चैत्र! कलिङ गमिष्यामः । अयदीति किम् ? अभिजानासि मित्र ! यत् कलिङ्गष्ववसाम ।। ६ ॥
न्या० स०-अयदि-ने चेद्यत् शब्द इति-धात्वर्थवाचकः क्रियाविशेषणरूपो न प्रयज्यते. यस्मादर्थे त भविष्यन्त्येवेति न्यासः। यत्कलिङष्ववसामेति-क्रियाविशेषणमेतत्, यद्वसनं न स्मरसीत्यर्थः, यदा तु यस्माद्धेतोः कलिङगेषु उषितवन्त इति विवक्ष्यते तत्र भविष्यन्त्येव ।
वाऽऽकाक्षायाम् ॥ ५. २. १० ॥
अयदोति नानुवर्तते, स्मृत्यर्थे धातावुपपदे सति यद्ययदि वा प्रयुज्यमाने प्रयोक्तुः क्रियान्तराकाङ्क्षायां सत्यां भूतानद्यतनेऽर्थे वर्तमानाद् धातोर्भविष्यन्ती वा भवति ।
स्मरसि मित्र! कश्मीरेषु वत्स्यामस्तत्रौदनं भोक्ष्यामहे पास्यामः पयांसि च, स्मरसि मित्र ! कश्मीरेष्ववसाम तत्रौदनमभुज्महि; स्मरसि मित्र ! यत् कश्मीरेषु वत्स्यामो यत् तत्रौदनम् भोक्ष्यामहे, स्मरसि मित्र! यत् कश्मीरेष्ववसाम यत् तत्रौदनमभुमहि । प्रत्र वासो लक्षणं भोजनं पानं च लक्ष्यमिति लक्ष्य-लक्षणयोः संम्बन्धे प्रयोक्तुराकाङ्क्षा भवति ।। १०॥
कृतास्मरणा-तिनिह्नवे परोक्षा ।। ५. २११. ।।
कृतस्यापि व्यापारस्य चित्तव्याक्षेपादिनाऽस्मरणेऽत्यन्तापह्नवे वा गम्यमाने भतेऽनद्यतनेऽर्थे वर्तमानाद धातोः परोक्षाविभक्तिर्भवति, अपरोक्षकालार्थ प्रारम्भः ।
सुप्तोऽहं किल विललाप, मत्तोऽहं किल विचचार, चिन्तयन् किलाहं शिरः कम्पयांबभूव, अङ्गुलि स्फोटयामास । अतिनिह्नवे-कश्चित् केनचिदुक्तः-कलिङ्गेषु त्वया ब्राह्मणो हतः, स तदप वान आह-क: कलिङ्गान् जगाम को ब्राह्मणं ददर्श, नाहं कलिङ्गान जगाम, इत्यत्यन्तमपह्न ते । प्रतिग्रहणादेकदेशापह्नवे ह्यस्तन्येव-न कलिङ्गषु ब्राह्मणमहमहनम् ।। ११॥
परोक्षे ॥ ५. २. १२ ॥
अक्षाणां परः-परोक्षः, अत एव निर्दशात् साधुः, अव्युत्पन्नो वा असाक्षात्कारार्थः, भूतानद्यतने परोक्षेऽर्थे वर्तमानाद् धातोः परोक्षा विभक्तिर्भवति । यद्यपि साध्यत्वेनानिष्पन्नस्वात् सर्वोऽपि धात्वर्थः परोक्षस्तथापि प्रत्यक्षसाधनत्वेन तत्र लोकस्य प्रत्यक्षत्वाभिमानोऽस्ति, यत्र स नास्ति स परोक्षः ।
जघान कंसं वासुदेवः, भरतं विजिग्ये बाहुबली, धर्म दिदेश तीर्थंकरः ।।१२॥