________________
पाद-१, सूत्र-१६५-१६९]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२४५
अग्नि चितवान्-अग्निचित् । अत्रापि चतुविधो नियमः । १-अग्नेरेवेति नियमातकुडय चितवान्-कुड्यचाय इत्यण् । २-चेरेवेति नियमात्-अग्नि कृतवान्--अग्निकारः । ३--भूत एवेति नियमात्-अग्नि चिनोति चेष्यति वा--अग्निचायः । ४--विबेवेति नियमात्अग्नि चितवानित्यण न भवति ॥१६४॥
कर्मण्यग्न्यर्थे ॥ ५. १. १६५ ॥ कर्मणः पराद् भूतेऽर्थे वर्तमानाच्चिनोतेः कर्मणि कारकेऽग्न्यर्थेऽभिधेये क्विप भवति ।
श्येन इव चीयते स्म--श्येनचित् , एवं--कङ्कचित् , रथचक्रचित् , अग्न्यर्थ इष्टकचय उच्यते । बहुलाधिकाराढिविषय एवायं दृष्टव्यः । केचित् तु संज्ञाशब्दत्वात् कालत्रयेऽप्ययं भवतोत्याहुः--श्येन इव चीयते चितश्चेष्यते वा--श्येनचित् ।।१६५।।
दृशः क्वनिप ॥ ५.१.१६६ ॥
कर्मणः परात् दृशो भतेऽर्थे वर्तमानात् क्वनिप् प्रत्ययो भवति । मेरु दृष्टवान्-- मेरुदृश्वा विश्वदृश्वा, बहुदृश्वा, परलोकदृश्वा । सामान्यसूत्रेण क्वनिपि सिद्ध भूतकाले प्रत्ययान्तरबाधनार्थं वचनम् ॥१६६॥
न्या० स०--दृशः क्व-प्रत्ययान्तरबाधनार्थमिति--अणादेरित्यर्थः । सह-राजभ्यां कृग-युधेः ॥ ५. १. १६७॥
सहशब्दात् राजन्शब्दाच्च कर्मणः परात् करोतेयुधेश्च वर्तमानात् क्वनिप् प्रत्ययो भवति ।
सह कृतवान्--सहकृत्वा, सहकृत्वानौ । सहयुद्धवान्-सहयुध्वा, सहयुध्वानौ । राजानं कृतवान् राजकृत्वा । राजानं योधितवान्--राजयुध्वा । युधिरन्त तण्यर्थः सकर्मकः । कर्मण इत्येव ? राज्ञा युद्धवान् । प्रत्ययान्तरबाधनार्थोऽयमप्यारम्भः ।।१६७॥
अनोर्जनेर्डः ।। ५. १. १६८॥ कर्मणः परादनुपूर्वाज्जनेभू तेऽर्थे वर्तमानाडुः प्रत्ययो भवति ।
पुमांसमनुजातः-पुमनुजः, स्त्र्यनुजः, आत्मानुजः । अनुपूर्वो जनिर्जननोपसर्जनायां प्राप्तौ वर्तमानः सकर्मकः ।।१६८।।
न्या० स०-अनोर्जने-पुमनुज-इति पुमांसमनुजननेन प्राप्तवानित्यर्थः। जननोपसर्जनायामिति-जननमुपसर्जनं यस्याः ।
सप्तम्याः ॥ ५. १. १६१ ॥ सप्तम्यन्तानाम्नः पराद् भूतेऽर्थे जने? भवति ।
उपसरे जातः-उपसरजः, मन्दुरायां मन्दुरे वा जातः मन्दुरजः, अप्सु जातम्-अप्सुजम्, अब्जम् ॥१६६।।