________________
२४६ ]
बृहवृत्ति-लघुन्याससंवलिते
[ पाद-१, सूत्र-१७०-५७२
न्या० स०-सप्तम्याः-अप्सुजमिति-'वर्षक्षर' ३-२-२६ इति वाऽलुक् । अजातेः पञ्चम्याः॥५. १. १७०॥ पञ्चम्यन्तादजातिवाचिनो नाम्नः पराद् भूतेऽर्थे जनेडों भवति ।
बुद्धेर्जातो-बुद्धिज: संस्कारः, संस्कारजा स्मृतिः, संतोषजं सुखम्, कौशल्याया जात:-कौशल्याजः, संज्ञाशब्दोऽत्रोपपदम् । अजातेरिति किम् ? हस्तिनो जातः, अश्वाज्जातः ।।१७०॥
न्या० सा-अजातेः प-कौशल्याज इति-कोशलस्यापत्यं स्त्री 'दुनादि' ६-१-११८ इति व्यः । ननु गोत्रं च चरणैः सहेति जातित्वे डो न प्राप्नोति अतोऽत्र कथम् ? इत्याहसंज्ञाशब्द इति ।
कचित् ॥ ५. १. १७१॥ उक्तादन्यत्रापि ववचिल्लक्ष्यानुसारेण डो भवति ।
उक्तान्नाम्नोऽन्यतोऽपि-कि जातेन-किज:, केन जात:-किजोऽनिर्जातपितकः, प्रलं जातेनालंजः, द्विर्जातो द्विजः, न जातोऽजः, अधिजातोऽधिजः, उपजः, परिजः, प्रजाता:प्रजाः, अभिजः । अकर्मणोऽपि-अनुजः । जातेरपि-ब्राह्मणज: पशुवधः, क्षत्रिय युद्धम् स्त्रीजमनतम् । उक्ताद्धातोरन्यतोऽपि-ब्रह्मणि जीनवान्-ब्रह्मज्यः । उक्तानाम्नो धातोश्चान्यतोऽपि-वरमाहतवान्-वराहः । उक्तानाम्नो धातोः कारकाच्चान्यतोऽपि-परिखातापरिखा, आखाता-आखा, उपखाता-उपखा।
नाम-धातु-कालान्यत्वे-मित्रं ह्वयति-मित्रह्वः, अणोऽपवादो डः। धातु-कारकान्यत्वे-पटे हन्यते स्म-पटहः। धातुकालान्यत्वे-वार्चरति-वा! हंसः । नाम-कारकान्यत्वेपुंसानुजातः-पुंसानुजः। नामाभावे उक्तधातु-कालान्यत्वे-प्रति अतति वा-अः, कायति कामयते वा-कः, भातीति-भं नक्षत्रम् । नामाभावे उक्तधातु-काल-कारकान्यत्वे च खन्यत इति-खम् ।।१७१॥
__न्या० स०-क्वचित्-वा! हंस इति-'वाह पत्यादयः' १-३-५८ इति निषेधात् 'चटते सद्वितीये' १-३-७ इति शो न भवति ।
सु-यजो बनिए ॥ ५.१. १७२ ।। सुनोतेर्यजतेश्च भूतार्थवृत्तेर्ध्वनिप् भवति ।
सुतवान्-सुत्वा, सुत्वानौ, सुत्वानः । इष्टवान्-यज्वा, यज्वानो, यज्वानः । क्वनिप्वन्भ्यां सिद्धे भूते नियमार्थं वचनम् । मन्नादिसूत्रस्थक्वचिद्ग्रहणस्यैव प्रपञ्चः । कारो गुणनिषेधार्थः । पकारः पित्कार्यार्थः । इकार उच्चारणार्थः ॥१७२॥
न्या० स०-सुयजो०-मन्नादिसूत्रस्थक्वचिद्ग्रहणस्यैवेति-ननु तत्रस्थ क्वचिद्ग्रहणाः देव नियमो भविष्यतीत्याशङ्का ।