________________
२४४ ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-१, सूत्र-१६२-१६४
--
-
पश्चाद् वृत्रेण सम्बन्धः । * मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् * इति क्विपाडणादिरेव बाध्यते न क्त-क्तवतू ।
४-तथा ब्रह्मादिभ्यो हन्तेर्भूत एव काले क्विप् नान्यस्मिन्-ब्रह्माणं हन्ति हनिष्यति वा-ब्रह्मघात इत्यणेव । तदेतत् सर्व बहुलाधिकाराल्लभ्यते ।।१६१।।
न्या० स०-ब्रह्मभूल-कालमात्रे वा क्विबिति-कया रोत्या मधोर्हन्ता कोऽर्थः ? मधुहननयोग्य : काल इति वाक्ये क्विपि मधुहेत्यादि । ब्रह्मघात इति-'ब्रह्मादिभ्यः' ५-१-८५ इति टक् प्रसङगेऽपि बहुलमण् ।
कृगः सुपुण्य-पाप-कम-मन्त्र-पदात् ॥ ५. १. १६२ ॥ सुशब्दात पुण्यादिभ्यश्च कर्मभ्यः परात् करोते तेऽर्थे वर्तमानात् क्विप् भवति ।
सुष्ठु कृतवान्-सुकृत् , पुण्यं कृतवान्-पुण्यकृत् , पापकृत् , कर्मकृत् , मन्त्रकृत् , पदकृत् । इदमपि नियमार्थ वचनम् । त्रिविधश्चात्र नियमः।
१-एभ्यः कृग एव भूते क्विप् नान्यस्माद् धातोः-मन्त्रमधीतवान्-मन्त्राध्याय इत्यणक्ता एव भवन्ति, न क्विप् । 'मन्त्रवित्, पापनुत्' इत्यादौ तु भूताविवक्षायां क्विप् ।
२-तथा एभ्यः कृगो भूत एव क्विप् । इह न भवति-कर्म करोति करिष्यति वाकर्मकारः, मन्त्रकारः, पदकारः ।
३-तथा एभ्यः परात् कृगो भूते क्विबेव नान्यः प्रत्ययः, तेन कर्म कृतवान्-कर्मकार इति न भवति । एभ्य एव भूते कृगः क्विबिति धातुनियमो नेष्यते, तेन 'शास्त्रकृत् , तीर्थकृत् , वृत्तिकृत् , सूत्रकृत् , भाष्यकृत्' इत्यादयः सिद्धाः ।।१६२।।
न्या० स०-कृग सुपुण्य-इत्यणता एवेति-अण् च क्तौ चाणक्ताः क्तवतुर्दशित एव क्तप्रत्ययस्तु आरम्भे यः क्तः स एव गृह्यते, अन्यस्य भावकर्मणोविधानात्, 'गत्यर्थ' ५-१-११ इत्यस्य तु सकर्मकत्वादप्राप्तिः।
सोमात् सुगः॥ ५. १. १६३ ॥ सोमात् कर्मणः परात् सुनोते तेऽर्थे वर्तमानात् क्विप् भवति ।
सोमं सुतवान्-सोमसुत् । अयमपि नियमार्थो योगः । चतुर्विधश्चात्रापि नियमः । १-सोमादेवेति नियमाव-सुरां सुतवान्-सुरासाव इत्यण् । सुरासुदिति भूताविवक्षायाम् । २-सुग एवेति नियमात्-सोमं पीतवान्-सोमपा इति विच् । ३-भूत एवेति नियमात्-सोमं सुनोति सोष्यति वा-सोमसाव इत्यण् । ४-क्विबेवेति नियमात्-सोमं सुतवान् इत्यण न भवति ।। १६३॥
अग्नेश्चः ।। ५. १. १६४ ॥ अग्नेः कर्मणः पराच्चिनोते तेऽर्थे वर्तमानात् क्विप् भवति ।