________________
पाद-१, सूत्र-१५९-१६१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२४३
अग्निष्टोमेनेष्टवान्-अग्निष्टोमयाजी, भवति हि सामान्यविशेषयोर्भेदविवक्षायां सामान्ययजौ विशेषयजिरग्निष्टोमः करणम् । भूत इति किम् ? अग्निष्टोमेन यजते । करणादिति किम् ? गुरूनिष्टवान् ॥१८॥
निन्द्य व्याप्यादिन विक्रियः॥ ५. १. १५१ ॥
व्याप्यानाम्नः परात् विपूर्वात् क्रोणातेभू तेऽर्थे वर्तमानात कुत्सिते कर्तरीन् प्रत्ययो भवति ।
सोमं विक्रीतवान-सोमविक्रयी, घतविक्रयो, तैलविक्रयी ब्राह्मणः । निन्द्य इति किम् ! धान्यविक्रायः, घृतविक्रायः, तैलविक्रायो वणिक् । व्याप्यादिति किम् ? ग्रामे विक्रोतवान् । भावेऽलन्तस्य मत्वर्थीयेनेना सिध्यति कुत्सायामण्बाधनार्थं वचनम् ।।१५९।।
हनो णिन् ॥ ५. १. १६०॥ व्याप्यान्नाम्नः पराद् भूतेऽर्थे वर्तमानात् हन्तेनिन्द्ये कर्तरि णिन प्रत्ययो भवति ।
पितृव्यं हतवान-पितृव्यघाती, मातुलघाती । प्रसरूपत्वादणपि-पितृव्यघात:, मातुलघातः । केचित् त्वसरूपविधि नेच्छन्ति । निन्द्य इत्येव ? शत्रु हतवान् शत्रुघातः, चौरघातः । व्याप्यादित्येव ?-दण्डेन हतवान् । घान्तान्मत्वर्थोयेनेना सिद्धे भूतकुत्साम्यामन्यत्र शत्रुधातीत्यादौ मत्वर्थीय निवृत्त्यर्थं वचनम् । अन्यत्रापीच्छत्यन्यः । एवं पूर्वसूत्रेऽपि ।।१६०॥
न्या० स०-हनो णि-मत्वर्थोयनिवृत्त्यर्थमिति-हननं घातः घत्रि पश्चान्मत्वर्थीयो न। एवं पूर्वसूत्रेऽपोति-पूर्वसूत्रेऽनुक्तमपि द्वितीयमिदं फलं द्रष्टव्यम्, इह तु इदमेव ततोऽसरूपत्वादणत्रानुज्ञातः, घान्तादित्याद्यारम्येच्छत्यन्य इति पर्यन्तं पूर्वसूत्रेऽपीत्यत्र ज्ञेयम् ।
ब्रह्म-भ्रूण-वृत्रात् क्विप् ॥ ५. १. १६१ ॥ ब्रह्मादिभ्यः कर्मभ्यः पराद् भूतेऽर्थे वर्तमानाद्धन्तेः क्विप् प्रत्ययो भवति ।
ब्रह्माणं हतवान्-ब्रह्महा, भ्रूणहा, वृत्रहा । "क्विप्" ( ५-१-१४८ ) इत्यनेनैव सिद्धे नियमार्थं वचनम्, चतुर्विषश्चात्र नियमः ।
१-ब्रह्मादिभ्य एव हन्तेर्भूते क्षिप् नान्यस्माव-पुरुष हतवान्-पुरुषघातः । 'मधुहा, अहिहा, गोत्रहा, हिमहा, तमोपहा, असुरहा, आखुहा' इत्यादिषु वर्तमानभविष्यतोः कालमात्र वा "क्विप् । (६-१-१४८) इत्यनेनैव क्विप् ।
___२-तथा ब्रह्मादिभ्यो हन्तेरेव भूते नान्यस्माद् धातोः क्विप्-ब्रह्माधीतवान् ब्रह्माध्याय इत्यणेव न तु क्विप् । ब्रह्मविदादयस्तु भूताविवक्षायाम् ।
३-तथा ब्रह्मादिभ्यो हन्ते ते क्विबेव नान्यः प्रत्ययः-ब्रह्माणं हतवान्-ब्रह्महा इति क्विबेव भवति नाण्-णिनौ । ब्रह्मनादयस्तु कालसामान्येन 'ब्रह्मादिभ्यः" (५-१-८५) इति टेक् प्रत्यये साधवः । कथं 'वृत्रस्य हन्तुः कुलिशम्' इति ? केवलादेव हन्तेस्तृच