________________
२४२ ]
बृहवृत्ति-लघुन्याससंवलिते [ पाद-१, सूत्र-१५५-१५८
न्या० स०-अजाते:-प्रसज्यप्रतिषेधादिति-पर्युदासाश्रयणे तु जातिवाचिनो द्रव्यरूपनिषेधादजातिवाचिनोऽपि द्रव्यवचनादेव स्यात् । सत्ति वर्जयित्वेति- उत्प्रतिभ्यामाङ: सर्ते. रिति परसूत्रमत्रार्थे ।
साधौ ॥ ५. १. १५५ ॥ नाम्नः परात् साधावर्थे वर्तमानात धातोणिन् प्रत्ययो भवति । प्रशीलार्थ आरम्भः ।
साधु करोति साधुकारी, साधुदायी, चारुनी, सुष्टुगामी । बहुलाधिकारात 'साधु वादयति वादको वीणाम्, साधु गायति' इत्यादौ न भवति ॥१५५।।
ब्रह्मणो वदः॥ ५. १. १५६ ॥
ब्रह्मन्शब्दात् पराद् वदेणिन् प्रत्ययो भवति । ब्रह्म ब्रह्माणं वा वदति-ब्रह्मवादी। अयमप्यशीलार्थ आरम्भः, जात्यर्थोऽसरूपविधिनिवृत्त्यर्थश्च ।।१५६॥
न्या० स०-ब्रह्मणो-निवृत्त्यर्थश्चेति-'कर्मणोऽण्' ५-१-७२ इत्यादेः । व्रता-ऽभीक्ष्ण्ये ॥ ५. १. १५७ ॥
व्रतं शास्त्रितो नियमः, आभीक्ष्ण्यं पौन:-पुन्यम्, तयोर्गम्यमानयो म्नः पराद् धातोणिन् प्रत्ययो भवति ।
व्रते-अश्राद्धं भक्त-अश्राद्धभोजी, अलवणभोजी, स्थण्डिलस्थायी, स्थण्डिलवर्ती, वृक्षमूलवासी,पावशायी, तदन्यवर्जनमिह व्रतं गम्यते । प्राभीक्ष्ण्ये-पुनः पुनः क्षीरं पिबन्तिक्षीरपायिण उशीनराः, तक्रपायिणः सौराष्ट्राः, कषायपायिणो गान्धाराः, सौवीरपायिणो बाह्रीकाः ।
व्रता-ऽऽभीक्षण्य इति किम् ? स्थण्डिले शेते-स्थण्डिलशयः । बहुलाधिकारादाभीक्ष्ण्येपीह न भवति-कुल्माषखादाश्नोलाः । अशोलार्थ जात्यथं च वचनम् ।। १५७।।।
न्या० स०-व्रताभी०-सूत्रत्वात् समाहारः, कर्मधारयो वा । अथाद्धभोजीति-श्राद्धं पितृदेवत्यं कर्म तदुद्दिश्य यत् क्रियते पिण्डादिकं तदपि श्राद्धम् । तदन्यवर्जनमिति-तस्याश्राद्धस्यान्यत् श्राद्धं तस्य वर्जनम् ।
उशीनरा इति-उश्यते स्थादित्वात् कः, गौरादित्वात् ङी, उशी नगरी तस्या नराः। सौराष्ट्रा इति-सुराष्ट्रशब्द एकवचनान्तोऽपि केषो मते इति 'बहुविषयेभ्यः' ६-३-४५ इति नाका किं त्वणेव । यद्वा सुराष्ट्रा नगरी तस्यां भवाः । गान्धारा इति-गन्धारदेशस्येमे तस्येदमण् ।
करणाद् यजो भूते ॥ ५. १. १५८ ॥ करणवाचिनो नाम्नः पराद् भूतेऽर्थे वर्तमानाद् यजेणिन् प्रत्ययो भवति ।