________________
पाद-१, सूत्र १५२-१५४ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [२४१
_ 'क्रयात् क्रव्याद' इत्येतौ शब्दौ यथासंख्यं क्विणन्तौ साधू भवतः, यद्यामात् पक्वाच्चाभिधेयौ भवतः।
क्रव्यमत्ति-क्रव्यात, प्राममांसभक्षः, क्रव्यादः पक्वमांसभक्षः। व्याद इति नेच्छन्त्यन्ये । आममांसवाच्यपि क्रव्यशब्द: क्रव्याद इति निपातनसामर्थ्यात् वृत्तौ पक्वमांसे वर्तते । अथवा कृत-विकृत्तशब्दस्य पक्वमांसार्थस्य पृषोदरादित्वात् ऋव्यादेशः । सिद्धौ प्रत्ययौ विषयमियमार्थं वचनम् ॥१५१॥
न्या० स०-क्रव्यात्-आममांसभक्ष इति-आमं च तत् मांसं चाममांसं तत् भक्षयतीति 'शीलिकामि' ६-१-७३ इति णः । कृत्तविकृत्तशब्दस्येति-विशेषेण कृत्तं विकृत्तं, पूर्व कृत्तं पश्चाद्विकृत्तं कृत्तं च तद्विकृत्तं च कृत्तविकृत्तं तस्य । स्यदाद्यन्यसमानादुपमानाद् व्याप्ये दृशष्टक्-सको च॥५. १. १५२॥
त्यदादेरन्यशब्दात् समानशब्दाच्चोपमानभूताद् व्याप्ये कर्मणि वर्तमानात् परात् दृशाप्य एव टक् सकौ क्विप् च प्रत्यया भवन्ति ।
___त्यदादि-स्य इव दृश्यते-त्यादृशः, त्यादृशी, त्यादृक्षः, त्यादृक्षा, त्यादृक्, एवंतादृशः, तादृशो, तादृक्षः, तादृक्षा, तादृक् । अन्य-अन्यादृशः, अन्यादृशी, अन्यादृक्षः, अन्यादृक्षा, अन्यादृक् । समान-सदृशः, सदृशी, सदृक्षः, सदृक्षाः, सहक । केचित् सकमपि टितं मन्यते, तन्मते-त्याहक्षीत्याशेव भवति ।
एभ्य इति किम् ? वृक्ष इव दृश्यते । उपमानादिति किम् ? स दृश्यते। व्याप्ये वर्तमानादिति किम् ? तेनेव दृश्यते; तस्मिन्निव दृश्यते, अस्मिन्निव दृश्यते। व्याप्य एवेति किम् ? तमिव पश्यन्तीत्यत्र कर्तरि न भवति । वचनभेदान्न यथासंख्यम् ।।१५२॥
कतुर्णिम् ॥ ५. १. १५३ ॥ कर्तुवाचिन उपासनभूतानामन पराधातोणिन् प्रत्ययो भवति । कृत्वात् कर्तरि ।
उष्ट्र इव क्रोशति-उष्ट्रकोशी, ध्वाक्षासवी; खरमाधी, सिंहलः। कर्तु रिति किम् ? शालोनिव कोद्रवान् भुङ्क्ते, उष्ट्र मिवाश्वमारोहति । उपमानभूतादित्येव ? उष्ट्र: क्रोशति । अशोलार्थो जात्यर्थश्वारम्भः ॥१५३॥
अजातेः शीले ॥ ५. १. १५४ ॥
अजातिवाचिनो नाम्नः पराद् धातोः शीलेऽर्थे वर्तमानात णिन् प्रत्ययो भवति ? उष्णं भुङ्क्ते इत्येवंशीलः-उष्णभोजी, शीतभोजी। अजातेरिति प्रसज्यप्रतिषेधादसत्त्ववाचिनोऽप्युपसर्गाद् भवति । उदासरतीत्येवंशील:-उदासारी, प्रत्यासारी, प्रस्थायीं, प्रतिबोधी, प्रयायो, प्रतियायी । उदाङ्-प्रत्याभ्यां परं सतिं वर्जयित्वाऽन्यस्माद् धातोरुपसर्गपरान्नेच्छन्त्यन्ये ।
अजातेरिति किम् ? ब्राह्मणानामन्त्रयिता, शालीन् भोक्ता । प्रभोक्ता, उपभोक्ता, संभोक्ता इति बहुलाधिकारान्न भवति । शोल इति किम् ? उष्णभोज आतुरः ।।१५४।।