________________
२४० ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद १, सूत्र-१४९-१५१
दित्वात् षत्वं च । घुसत, अन्तरिक्षासत्, सभासत्, प्रलोदति प्रसत, उपलत् । अण्डं सूतेअण्डसूः, शतसूः, प्रतः। मित्रं दृष्टि-मित्रद्विट्, 'प्रद्विट् द्विषो जेनोस्यियोष्ट चः' । मित्राय द्रुह्मति-मित्र ध्रुक् प्रधुक विध्रुक् । मां दोग्धि-गोषुक्, कामधुक प्रधुक् । अश्वं कुनक्ति यज्यते वा-प्रश्वयुक, प्रयुक; युङ, जौ, युजः। तस्वचित, वेदग्लि प्रचित, 'निषिविदे विदां वरः', विदेर विशेषेण ग्रहणम्, लाभार्थाभेच्छन्त्येके । काष्ठं भिवत्ति-काष्ठमित, बलभित्, गोत्रभित्, भिद् । रज्जु छिनत्ति-रज्जुच्छित्, तमस्छिन्. मच्छित्, प्रच्छित्, छित् । शत्रु जयति-शत्रुजित्, प्रसेनजित्, कर्मजित् , प्रनित , अभिजित् । सेनां नयति-सेनानीः, अव्रणीः, प्रामणीः, प्ररणी ; नी:, नियो, नियः। विश्वस्मिन् राजते-विश्वाराट्, विश्वस्य "वसु-राटोः" ( ३-२-८१ ) इति दीर्घः, राजरण्ट, सम्राट्, विराट, राट् । अञ्चेः -दध्यञ्चति -दध्यङ्, देवमञ्चति-देवाङ्, अदद्रयङ् विश्वाङ्, यिर्यङ्, सध्रयङ, सम्यङ, प्राङ, प्रत्यङ्, केवलान्न भवति ।
तथा ऋतौ ऋतुम् ऋतवे ऋषुप्रयोजनो वा पचते-ऋत्विम् यामकः, "ऋत्विज." (२-१-६६ ) इत्यादिसूत्रेण गत्वम् । धृष्णोलि-दधृक् प्रात्मः, दधृगि-(वि)ति निर्देशात द्वित्वम् । उत्स्निह्यति उन्नति वा-उष्णिक छन्दः, उष्णिगिति निर्देशात् दलोप-षत्वादि । कथं 'दिश्यते दिक्. सृज्यते-सक्' ? कृत्संपदादित्वात् क्विष् । ककारः कित्कार्यार्थः । पकारः फित्कार्यार्थः । इकार उच्चारमार्थः ।।१४८॥
च्या० स०-विवप्-उखेन उखया वेति-पुते वर्तमान उखशब्दः पुंस्त्री स्थाल्यां नित्यस्त्रीति वैयाकरणा मन्यन्ते पा इति-'ईय॑ञ्जने' ४-३-९७ इत्यत्र साक्षात् व्यञ्जनग्रहणात् क्विप्लोपे ईत्वं न।
स्पृशोऽनुदकात् ॥ ५. १. १४१ ॥
उदकजितानाम्नः परात् स्पृशेः विवप् प्रत्ययो भवति । घृतं स्पृशति-घृतस्पृक् । एवं-मर्मस्पृक्, व्योमस्पृक् । मन्त्रेण स्पृशति-मन्त्रस्पृक् । कर्मोपपदादेवेच्छन्त्यन्ये ।
अनुदकादिति किम् ? उदकस्पर्शः, उदकेन स्पर्टा । अनुदक इति पर्यु दासाश्रयणादुदकसदृशमनुपसर्गनाम गृह्यते तेनेह न भवति-उपस्पृशति ।। १४९।।
अदोऽनन्नात् ॥ ५. १. १५० ॥
अन्नजितान्नाम्नः पराददेः क्विप् प्रत्ययो भवति । आममत्ति-आमात्, सस्यात् । अमन्त्रादिति किम् ? अन्नादः । बहुलाधिकारात्-कणादः, पिप्पलादः । क्विप सिद्धोऽनप्रतिषेधार्थ वचनम् ।।१५।।
न्या० स०-अदोन-ननु लक्ष्यानुसारेण क्विप् ५-१-१४८ इति विवप् भविष्यति किमनेन ? सत्यं,-तस्यैव प्रपञ्चोऽयमिति ।
क्रव्यात्-कव्यादावाम पक्कादौ ॥ ५. १. १५१ ॥