________________
पाद-१, सूत्र-१४५-१४८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२३९
मूलविभुजादयः शब्दाःकप्रत्ययान्ता नियतार्थधातूपपदा यथाशिष्टप्रयोगंनिपात्यन्ते। - मूलानि विभुजति-मूलविभुजो रथः, उया रोहति-उर्वीरुहो वृक्षः, को मोदतेकुमुदं कैरवम्, महीं धरति-महीध्रः शैल:, उषसि बुध्यते-उषबुधोऽग्निः, अपो बिभर्तिअब्ध्र मेघः, सरिस रोहति-सरसिरहं पद्मम् , नखानि मुञ्चन्ति-नखमुचानि धन षि, काकेभ्यो गृहनीयाः-काकगुहास्तिलाः, धर्माय प्रददाति-धर्मप्रदः, एवं-कामप्रदः, शब्दप्रदः । शास्त्रेण प्रजानाति-शास्त्रप्रज्ञः, एवम्-आगमप्रज्ञः ॥१४४ ।।
न्या० स०-मूलविभूजा-उबारह इति- 'ङस्युक्तम्' ३-१-४९ इति समासार्थमत्र पाठोऽन्यथा 'नाम्युपान्त्य' ५-१-५४ इति सिध्यति, एवं धर्मप्रद इत्यत्रापि, अत्र हि 'उपसर्गादातो डोऽश्यः' ५-१-५६ इति डै समासो न स्यात् ।
दुहेडुघः ।। ५. १. १४५॥
नाम्नः पराद् दुहेई घः प्रत्ययो भवति । कामान् दुग्धे पूरयति-कामदुधा, धर्माय दुग्धे-धर्मदुधा । असरूपत्वात् क्विप्-कामधुक । डकारोऽन्त्यस्वरादिलोपार्थः ।। १४५।।
भजो विण ॥ ५. १. १४६ ॥
नाम्नः पराद् भजेविण् प्रत्ययो भवति । अधं भजते-अर्धभाक् , पादभाक्, दूरभाक, प्रभाक्, विभाक् । णकारो वृद्धयर्थः, इकार उच्चारणार्थः, वकारो विण विवपोः सारूप्यार्थस्तेनात्र विषये क्विप् न भवति ।।१४६।।
मन् वन क्वनिप् विच क्वचित् । ५. १. १४७ ॥ नाम्नः पराद धातोरेते प्रत्ययाः क्वचित् लक्ष्यानुसारेण भवन्ति ।
मन्-इन्द्रं शृणाति-इन्द्रशर्मा, सुशर्मा, सुवर्मा, सुदामा, अश्वत्थामा । क्वचिद्ग्रहणात केवलादपि-शर्म, वर्म, हेम, दामा, पामा । बन्-भूरिदावा, घृतपावा, अग्रेगावा, विजावा-"वन्याङ् पञ्चमस्य" ( ४-२-६५ .) इत्यात्वम् । क्वनिप् प्रातरित्वा, प्रातरित्वानौ; सुधीवा, सुपीवा । केवलादपि-कृत्वा, कृत्वानौ; धीवा, पीवा । विच कीलालपाः, शुभंयाः, पाप्मरेट् । केवलादपि-रेट, रोट, वेट् , जागः । ककार पकारौ कित-पित्कार्याथौ ।। १४७।।
क्वि ।। ५. १. १४८ ॥
नाम्नः पराद् धातोः क्विप् प्रत्ययो भवति क्वचित् । उखेन उखया वा नसतेउखास्रत्, वहात् भ्रश्यति-वहाभ्रट, "घञ्युपसर्गस्य बहुलम्" (३-२-८६) इति बहुलग्रहणादुख-वहयोर्दीर्घः । पर्णानि ध्वंसते-पर्णध्वत् । शकान्-ह्वयति--शकहूः । परिव्ययति'परिवीः । यवलूः, खलपूः, अक्षयः, मित्रभूः, प्रतिभूः, कट चिकीः।
केवलादपि-पाः, वाः, की , गीः ऊः, लू:, क्रुङ. पक् । सदि--सू-द्विष--द्रुह-दुह-युजविद-भिद-च्छिद-जि-नी-राजिभ्यश्च । दिवि सीदति-दिविषत्, सप्तम्या अलुप्, भीरुष्ठाना.