________________
२३८ ]
बृहवृत्ति लघुन्याससंवलिते [ पाद-१, सूत्र-१४०-१४४
भिक्षाचरी। सेनां चरति-परीक्षते-सेनाचरस्तापसव्यञ्जनः, सेनया वा चरति-सेनाचरः । आदाय-गृहीत्वा चरति-प्रादायचरः, आदानं कृत्वा चरतीत्यर्थः, किमादायेत्यविवव । एभ्य इति किम् ? कुरूश्चरति ॥१३९॥
. न्या० स०-भिक्षासे०-तापसव्यञ्जन इति-तपोऽस्यास्ति ज्योत्स्नादित्वादण् तापसः, तस्य व्यञ्जनं चिह्न यस्य, यद्वा तपस इदं तापसं तत् व्यञ्जनं यस्य, यद्वा तापस इति व्यज्यते प्रकटीक्रियते ज्ञायते तापसव्यञ्जनः, यद्वा तापसे व्यञ्जनं व्याजो यस्येति ।
पुरोऽग्रतोऽने सर्तेः ॥ ५. १. १४० ॥
एभ्यो नामभ्यः परात सर्तेष्टो भवति । पुरः सरति-पुरःसरः, पुरःसरी । अग्रतः सरति-अग्रतःसरः, आद्यादित्वात् तस् । अग्रे सरति-अग्रेसरः सप्तम्यलुप, एकारान्तमव्ययं वा; सूत्रनिपातनाद् वैकारः, तत्राग्रं सरति अग्रेण वा सरति-अग्नेसर इत्यपि भवति ।। १४०।
पूर्वात् कतुः ।। ५. १. १४१ ॥
पूर्वशब्दात कर्तृवाचिनः परात सरतेष्टो भवति । पूर्वः सरति-पूर्वसरः, पूर्वो भूत्वा सरतीत्यर्थः, कस्मात् पूर्व इति अविवक्षव; पूर्वसरी । कर्तु रिति किम् ? पूर्व देशं सरतिपूर्वसारः ॥१४१॥
न्या० स०-पूर्वात्कर्तु: अविवक्षवेति-तेन सापेक्षत्वात् समासो न प्राप्नोतीति न वाच्यम् ।
स्था-पा-स्ना-त्रः कः॥ ५.१. १४२ ॥
नाम्नः परेभ्य एभ्यः कः प्रत्ययो भवति । समे तिष्ठति-समस्थः, विषमस्थः, कूटस्थः, कपित्थः, दधित्थः, महित्थः, अश्वत्थः, कुलत्थः । द्विपः, पादपः, कच्छपः, अनेकपः, कटाहपः । नदीष्णः । आतपत्रम्, धर्मत्रम् । परत्वादयं "शमो नाम्न्यः" (५-१.१३४) इत्यप्रत्ययं बाधते शंस्थो नाम कश्चित् । 'शंस्थाः' इत्यसरूपत्वात् क्विप् ।।१४२॥ शोकापनुद-तुन्दपरिमृज-स्तम्बेरम-कर्णेजपं-प्रिया-ऽलस-हस्ति
सूचके। ५. १. १४३ ॥ शोकापनुदादयः शब्दा यथासंख्यं प्रियादिध्वर्थेषु कप्रत्ययान्ता निपात्यन्ते । शोकमपनुदति-शोकापनुदः प्रियः, पुत्रादिरानन्दकर एवमुच्यते । तुन्दं परिमाष्टि-तुन्दपरिमृजोऽलसः, स्तम्बे रमते-स्तम्बेरमो हस्ती, कर्णे जपति-कर्णेजप: सूचकः । एस्विति किम् ? शोकापनोदो धर्माचार्यः, तुन्दपरिमार्ज प्रातुरः, स्तम्बे रन्ता पक्षी, कर्णे जपिता मन्त्री ।४३।
मूलविभुजादयः ।। ५. १. १४४ ॥