________________
पाद-१, सूत्र-१३५-१३६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२३७
दिष्वव्ययानां कर्मत्वदर्शनाच्छमि कर्मणि हेत्वादिष्वपि परस्थात् कृगष्टो बाध्यते-शंकरा नाम परिवाजिका, शंकरा नाम शकुनिका तच्छीलाच । नाम्नीति किम् ? शंकरी जिनदीक्षा ।। १३४ ॥
न्या० स०-शमो नाम्न्यः-कर्मत्वदर्शनादिति-एकेऽव्ययानां कर्मत्वं न मन्यन्ते तन्मतमाक्षिप्याह ऊर्ध्वादिभ्यः-ननु कर्तृ शब्दाद् बहुवचनं प्राप्नोति ऊर्ध्वादिविशेषणत्वात् ? सत्यं,-सामान्यमिदमित्येकवचनं, यथा-पञ्चादौ घुट ।
पार्थादिभ्यः शीङः।। ५. १. १३५ ।।
पार्वादिभ्यो नामभ्यः परात् शोङः 'प्रः' प्रत्ययो भवति । पार्वाभ्यां शेते-पार्श्वशयः, एवं-पृष्ठशयः, उदरशयः । दिग्धेन सह शेते-दिग्धसहशयः, दिग्धसहात तृतीयासमासात शोङोऽकारः, पश्चादुपपदसमासः । बहुवचनाद् यथादर्शनमन्येभ्योऽपि भवति । अनाधारार्थ प्रारम्भः ।।१३।।
ऊर्धादिभ्यः कतुः॥ ५, १. १३६ ॥
ऊर्ध्वादिभ्यो नामभ्यः कर्तृवाचिभ्यः पराव शीङः 'प्रः' प्रत्ययो भवति । ऊर्ध्वः शेते-ऊर्ध्वशयः, एवम्-उत्तानशयः, अवमूर्धशयः । बहुवचनं प्रयोगानुसरणार्थम् ।। १३६॥
आधारात् ॥ ५. १. १३७॥
प्राधारवाचिनो नाम्नः परात शीङः 'अ' प्रत्ययो भवति । खे शेते-खशयः, गर्तशयः, गुहाशयः, हृच्छयः, 'बिलेशयः, मनसिशयः, कुशेशयः' इति सप्तम्या प्रलुप् । गिरिश इति संज्ञायां लोमादित्वाच्छः, क्रियार्थत्वे तु गिरिशय इति भवितव्यम् ॥१३७।।
न्या० स०-आधाराव-गतशय इति-फणगर्तेति पुंस्त्रीत्वे गर्ते शेते इति वाक्यम् । कुशेशय इति-कश्चित्पुमान्, जलजे तु क्लीबत्वं स्यात् । क्रियार्थत्वे इति-कलापके क्रियार्थत्वे तिपि साधितं, न तच्छिष्टसम्मतम् ।
चरेष्टः ।। ५. १. १३८॥
प्राधारवाचिनो नाम्नः पराच्चरेष्टः प्रत्ययो भवति । कुरुषु चरति-कुरुचरः, मद्रचरः, वनेचरः निशाचरः । टकारो ड्यर्थः-कुरुचरी, मद्रचरी । प्राधारादित्येव ? कुरूश्चरति, पञ्चालांश्चरति ।।१३८॥
न्या० स०-चरेष्ट:-कुरूश्चरतीति-प्राप्यात्कर्मणः क्वचिदण् भवतीति यद्यणानीयते तदा समासोऽपि भवति तथा च कुरुचारः पञ्चालचारः इत्यपि ।
भिक्षा-सेना-ऽऽदायात् ॥ ५. १. १३१ ॥ अनाधारार्थ आरम्भः, एभ्यः पराच्चरेष्टो भवति । भिक्षा चरति-भिक्षाचरः,