________________
२३६ ]
बृहवृत्ति लघुन्याससंवलिते
[पाद - १, सूत्र-१३२-१३४
नाम्नः परात् गमेः "खड् ड" इत्येतौ खश्च प्रत्यया भवन्ति, विहायसशब्दस्य च विहादेशो भवति ।
खड्-तुरो गच्छति-तुरंगः, भुजेन भुज इव वा गच्छति-भुजंगः, प्रवेण प्लवेन गच्छति-प्रवङ्गः, प्लवङ्ग, पतो गच्छति-पतंगः, विहायसा गच्छति-विहंगः । ड-तुरगः, भुजगः, प्लवगः, विहगः, अत्यन्तगः, सर्वगः, सर्वत्रगः, अनन्तगः, परदारगः, ग्रामगः, गुरुतल्पगः, प्रतीपगः पुरोगः, पीठगः, तीरगः । अग्रादिभ्यस्तदन्तेभ्योऽपि-अग्रगः, सेनानगः, पादिगः, पतयादिगः, मध्यगः गृहमध्यगः, अन्तगः, शाखान्तगः, अध्वगः, नगराध्वगः, दूरगः, अदूरगः, पारगः, वेदपारगः, अगारगः, स्त्र्यगारगः, इत्यादि ।
___अथ संज्ञायाम् खे गच्छति-खगः पक्षी, न गच्छति-अगो वृक्षः पर्वतश्च, एवं-नगः, उरसा गच्छति-उरगः, पृषोदरादित्वात् सलोपः । पतो गच्छति-पतगः पक्षी । पद्धयां न गच्छति-पन्नं गच्छति वा-पन्नगः सर्पः । आपब्धि गच्छत्यापगा नदी । आशु गच्छतिआशुगः शरः । निम्नगा, समुद्रगा, सततगा, इत्यादि । अगो वृषल: शीतेनेत्यसंज्ञायामपि । प्रथ खः-सुतं सुतेन वा गच्छति-सुतंगमो नाम हस्ती यस्य सौतंगमिः पुत्रः । मितं गच्छतिमितंगमोऽश्वः, अमितंगमा हस्तिनी, जनंगमश्चण्डालः, पूर्वगमाः पन्थानः, हृदयंगमा वाचः, तुरंगमोऽश्वः, भुजंगमः सर्पः, प्रवंगमः कपिः, प्लवंगमो भेकः, विहंगमो नभसंगमश्च पक्षी, नभसशब्दोऽकारान्तोऽप्यस्ति । उरंगम इत्यपि कश्चित् । बहुलाधिकाराद् यथाप्रयोगदर्शनं व्यवस्था। डकारोऽन्त्यस्वरादिलोपार्थः ।। १३१ ॥
___ न्या० स०-नाम्नो गमः-भूजेनेति-भोजनं स्थादित्वात्कः, भूजेन कौटिल्येन गच्छति । भूज इवेति भुज्यतेऽनेन भुजः पाणिस्तद्वद्गच्छति, पतो गच्छतीति-क्षीरस्तु पतत्यनेन 'पुन्नाम्नि' ५-३-१३० इति घे पतः पक्षस्तैर्गच्छतीति । प्रापमब्धिं गच्छतीतिआपोऽत्र सन्ति ज्योत्स्नाद्यण् , अपामयमाधारत्वेन तस्येदमण वा, आप्यते नदीभिरिति वा भावे पत्र ।
सुग-दुर्गमाधारे।। ५. १, १३२ ॥
सु-दुा पराद् गमेराधारे डः प्रत्ययो निपात्यते । सुखेन दुःखेन च गम्यतेऽस्मिनिति-सुगः, दुर्गः पन्थाः । आधार इति किम् ? सुगन्ता, दुर्गन्ता । असरूपत्वादनडपि भवति -सुगमनः, दुर्गमनः । सुगमो दुर्गम इति कर्मणि ।। १३२ ।।
निर्गो देशे॥ ५. १. १३३ ॥
निस्पूर्वाद् गमेराघारे देशे डो निपात्यते । निर्गम्यतेऽस्मिन् देशे इति-निर्गो देशः । देश इति किम् ? निर्गमनः ।। १३३ ।।
शमो नाम्न्यः ॥ ५. १. १३४ ॥
शमो नाम्नः पराद् धातोर्नामिन-संज्ञायामः प्रत्ययो भवति । शमित्यव्ययं सुखे वर्तते, तत्र भवति-शंभवोऽर्हन् । शं करोति-शंकरः, शंगरः, शंवरः, शंवदः । स्वः पश्येत्या