________________
4
पाद - १, सूत्र--१२८-१३१] श्रीसिद्ध हेम चन्द्रशब्दानुशासने पंचमोऽध्यायः [ २३५ नग्न पलित- प्रिया-न्ध स्थूल सुभगा -ऽऽदय तदन्ताच्च्व्यर्थे ऽच्चेर्भुवः खिष्णु खुकञ् ।। ५. १, १२८ ॥
नग्नादिभ्यः केवलेभ्यस्तदन्तेभ्यश्चाच्च्यन्तेभ्यश्च्व्यर्थे वर्तमानेभ्यः पराद् भवतेः खिष्णुखुकञौ प्रत्ययौ भवतः ।
अनग्नो नग्नो भवति - नग्नंभविष्णुः, नग्नंभावुकः, पालितंभविष्णुः, पालितंभावुकः; प्रियंभविष्णुः, प्रियंभावुकः; स्थूलंभविष्णुः स्थूलंभावुकः; सुभगंभविष्णुः, सुभगंभावुकः; आढचं भविष्णुः, आढ्य भावुकः । तदन्तेभ्यः - अननग्नोऽनग्नो भवति श्रनग्नंभविष्णुः, धनग्नंभावुकः, असुनग्नः सुनग्नो भवति सुनग्नंभविष्णुः, सुनग्नंभावुकः; इत्यादि । व्यर्थ इति किम् ? नग्नो भविता । अच्वेरिति किम् ? प्राढ्घीभविता तृच् । उपपदविधिषु तदन्तविधिरनाश्रित इति तदन्तग्रहणम् ।। १२८ ।।
कृगः खनटू करणे ।। ५. १. १२१ ॥
नग्नादिभ्योऽच्च्यन्तेभ्यश्च्व्यर्थवृत्तिभ्यः परात् करोतेः करणे खनट् प्रत्ययो भवति । करण इति "कर्तरि " ( ५- १ - ३ ) इत्यस्यापवादः ।
नग्न नग्नः क्रियतेऽनेन नग्नंकरणं द्यूतम् । एवं पलितं करणं तैलम्, प्रियंकरणं शीलम्, अन्धकरणः शोकः, स्थूलंकरणं दधि, सुभगं करणं रूपम्, आढ्य करणं वित्तम् । तदन्तेभ्योऽपि - अननग्नोऽनग्नः क्रियतेऽनेन - अनग्नं करणः पटः, सुनग्नंकरणः, अपलितं करणो रस इत्यादि । च्व्यर्थ इत्येव ? नग्नं करोति द्यूतेन, नात्र प्रकृतिविकारभावो विवक्ष्यते । अच्वेरित्येव ? नग्नीकुर्वन्त्यनेन अत्र खनट्प्रतिषेधसामर्थ्यादनडपि न भवति, नहि नाग्नीकरणमित्यत्रानट् - खनटो रूपे समासे स्त्रियां वा विशेषोऽस्ति । केचित् तु व्यन्तपूर्वादपि खनटमिच्छन्ति नग्नीकरणं द्यूतम् ।। १२९ ।।
न्या० स०- कृगः खनट् - विशेषोऽस्तीति- व्यन्तत्वादव्ययत्वं खित्यनव्यय' ३-२-१११ इति मोन्तोऽपि न भवति ।
भावे चाशिताद् भुवः खः ।। ५. १. १३० ॥
आशितशब्दात् पराद् भवतेर्भावे करणे चाभिधेये खः प्रत्ययो भवति । आशितेन तृप्तेन भूयते भवता - आशितंभवो वर्तते भवतः ; आशितो भवत्यनेन आशितंभव ओदनः, आशितो भवत्यनया - आशितंभवा पञ्चपूली । श्रसरूपत्वादनडपि श्राशितस्य भवनम् न घञ् सरूपत्वात् । आशित इति निर्देशादरनातेः कर्तरि क्तो दीर्घत्वं च । आङ्पूर्वाद् वा अविवक्षितकर्मकात् कर्तरि क्तः ।। १३० ।।
न्या० स०- भावे चाशिता-कर्त्तरि क्त इति-शीत्यादित्वात् अविवक्षित कर्मकादिति'गत्यर्थाकर्मक' ५-१-११ इत्यनेन ।
नाम्नो गमः खड्-डौ च विहायसस्तु विहः । ५. १. १३१ ॥