________________
२३४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-१, सूत्र-१-१२२-१२७
आभ्यां कर्मभ्यां पराद् धमतेः खश प्रत्ययो भवति । पाणि धमति-पाणिधमः, करंधमाः । पाणि-करात धेरपीति कश्चित्-पाणिधयः, करंधयः । पाणिधमाः, करंधमाः, नाडिधमाः पन्थान इति तद्योगाद्, यथा-मञ्चाः क्रोशन्तीति ।।१२१॥
___ न्या० स०-पाणिकराव पाणिधमा इति पाणिधमपुरुषयोगात् पथां ताच्छब्द्यं, अधिकरणे वा 'बहुलम्' ५-१-२ इति खश् इति पारायणम् ।
कूलादुद जोद्रहः ॥ ५. १. १२२ ॥
कूलात् कर्मण पराभ्याम् 'उद्रुज् उद्वह' इत्येताभ्यां परः खश् भवति । कूलमुद्रु. जो गजः, कूलमुद्वहा नदी ।। १२२।।
वहाऽभ्रालिहः ॥ ५. १. १२३ ॥
वहा-ऽभ्राभ्यां कर्मभ्यां पराल्लिहेः खश् भवति । वहं लेढि-वहंलि हो गौः, अभ्रंलिहः प्रासादः ।। १२३ ।
बहु-विध्वरुस् तिलात् तुदः ॥ ५. १. १२४ ॥
एभ्यः कर्मभ्यः परात तुदेः खश् भवति । बहुं तुदति बहुन्तुदं युगम्, विधुतुदो राहु, अरंतुदः पीडाकरः, तिलंतुदः काकः । बहो: केचिदेवेच्छन्ति ।।१२४।।
न्या० स०-बहुविध्वरु०-अरुंतुद इति-मोन्ते संयोगस्य' २ १-८८ इति स लोपः । ललाट-वात-शर्धात् तपा-ज-हाकः ॥ ५. १. १२५ !!
ललाटादिभ्यः कर्मभ्यः परेभ्यो यथासंख्यं तप अज् हाक , इत्येतेश्यः खश भवति । ललाटं तपति ललाटंतपः सूर्यः, वातमजन्ति-बातमजा मृगाः, शर्धजहति शर्धजहा माषा. । खशः शित्त्वादजेर्वी आदेशो न भवति । हाकः ककारो हाङो निवृत्यर्थः ।।१२।।
असूर्योग्राद दृशः॥ ५. १, १२६ ॥
प्रसूर्योग्राभ्यां कर्मभ्यां परात दृशे: खश् भवति । सूर्यमपि न पश्यन्ति-असूर्यपश्या राजदाराः, दृशिनां संबद्धस्य नजः सूर्येण सहासामर्थ्येऽपि गमकत्वात समास । उग्रं पश्यति-उग्रंपश्यः ॥१२६॥
न्या० स० - असूर्यो-गमकत्वादिति-वाक्यार्थप्रतिपादकत्वादित्यर्थः । इरंमदः।। ५. १. १२७॥
कर्मण इति निवृत्तम् , इरापूर्वान्माद्यतेः खश् श्याभावश्च निपात्यते । इरा-सुरा, तया माद्यतीतिइरंमदः ॥१२७॥
न्या० स०-इरंमदः-कर्मण इति निवृत्तमिति-निपातनात् धातोरकर्मकत्वाद् वा ।