________________
पाद-१, सूत्र-११६-१२१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२३३
न्या० स०-वाचंयमो-शास्त्रीयो नियम इति-शास्त्रं संजातमस्य उपदेशकतया, शास्तुः सकाशात् इतः प्राप्तो वा, यद्वा शास्तारं कर्मलापन्नमित. प्राप्तः ।
मन्याण्णिन् ॥ ५, १. ११६ ॥
कर्मणः परान्मन्यतेणिन् प्रत्ययो भवति । पण्डितं मन्यते बन्धुं-पंक्तिमानी बन्योः । दर्शनीयां मन्यते भार्यां-दर्शनीयमानी भाया । श्यनिर्देश उत्तरार्थः ॥११६॥
न्या० स०-मन्या०-उत्तरार्थ इति-मनुतेनिवृत्त्यर्थश्च । कर्तः खश ।। ५. १. ११७॥
प्रत्ययार्थात् कर्तु: कर्मणः परान्मन्यतेः खश् प्रत्ययो भवति । यदा प्रत्ययार्थ कर्ता प्रात्मानमेव दर्शनीयत्वादिना धर्मेण विशिष्टं मन्यते तदाऽयं कर्म, तत्रायं विधिः ।
पण्डितमात्मानं मन्यते-पण्डितंमन्यः, पट्वीमात्मानं मन्यते पद्विमन्या, विद्वन्मन्यः, विदुषिमन्या । असरूपत्वाणिन्नपि-पण्डितमात्मानं मन्यते-पण्डितमानी पटुमानिनी; विद्वन्मानी, विद्वन्मानिनी। कर्तु रिति किम् ? दर्शनीयमानी चैत्रस्थ, पूर्वेणात्र जिन्नेव । शकारः शित्कार्यार्थः ॥११७ ।
एजेः॥ ५.१.११८॥
कर्मणः परादेजयतेः खश् भवति । अङ्गान्येवयति-अङ्गनेशवः, जनमेजयः, अरिमेजयः ।।११८॥
शुनी-स्तन-मुञ्ज-कूला-ऽऽस्य-पुष्पात् ट्धेः ।। ५. १. १११ ॥
एभ्यः कर्मभ्यः परात् टघेः खश् भवति । शुनी धयति-शुनिधयः, स्तनंधयः, मुजं. धयः, कलंधयः, प्रास्यंधयः, पुष्पंधयः । मुजाविभ्यः केचिदेवेच्छन्ति । धेष्टकारो इचर्थःशुनिधयो स्तनंधयी सर्पजातिः ।।११९॥
न्या० स०-शुनीस्तन०-शुनिधयोति-क्रियावाचकत्वात् जातिद्वारा डीन प्राप्त इति टकरणम् ।
नाडी-घटी-खरी-मुष्टि-नासिका-वाताद् ध्मश्च ।। ५. १. १२० ॥
एम्यः कर्मभ्यः पराद्धमतेष्ट्धेश्च खश् भवति । नाडौं धमति धयति वा-नाडिधमः, नाडिधयः । घटिंघमः, घटिंधयः । खरिधमः, खरिषय । मुष्टिधमः, मुष्टिधयः । नासिकंधमः, नासिकंधयः । वातंधमः, वातंधयः ।
ड्यन्तनिर्देशस्तदभावे खश्प्रत्ययनिवृत्त्यर्थः-नाडि धमति धयति वा-नाडिध्मः, नाडिघः, घटध्मः, घटधः, खरध्मः खरषः ।।१२०॥
पाणि-करात् ।। ५. १. १२१ ॥