________________
२३२ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद-१, सूत्र-११०-११५
सर्वतो मानं परिमाणम्, तदर्थाः प्रस्थादयः शब्दाः, ऐभ्यो मित-नखाभ्यां च । कर्मभ्यां परात पचेः खः प्रत्ययो भवति। प्रस्थंपचा स्थालो, द्रोणंपचा दासी, अल्पंपचा मुनयः, "पान्तावल्पंपचान् मुनीन्,” मितंपचा ब्राह्मणी, नखंपचा यवागूः ॥१०६।।
कूला-भ्र-करीषात् कषः॥५. १. ११०॥
एभ्यः कर्मभ्यः पराव कषेः खः प्रत्ययो भवति । कलंकषा नदी, अभ्रकषो गिरिः, करीषंकषा वात्या ।। ११०॥
सर्वात् सहश्च ॥ ५. १. १११ ॥
सर्वशब्दात् कर्मणः परात् सहेः कषेश्च खः प्रत्ययो भवति । सर्व सहते-सर्वसहो मुनिः, सर्वकषः खलः ।।१११।।
भृ-वृ-जि-तृ-तप-दमेश्व-नाम्नि ॥ ५. १. ११२ ॥
कर्मणः परेभ्य एभ्यः सहश्च खो भवति, नाम्नि-संज्ञायाम् । विश्वं बिति-विश्वंभरा वसुधा । वृ-पतिवरा कन्या। जि-शत्रुञ्जयः पर्वतः, धनंजयः पार्थः । तृ-रथंतरं साम । तप-शत्रुतपो राजा। दमिरन्तर्भूतण्यर्थो ण्यन्तश्च गृह्यते, बलि दाम्यति दमयति वा-बलिदमः कृष्णः, अरिंदमः, सह-शसहः, एतौ राजानौ । नाम्नोति किम् ? कुटुम्बं बिभर्तिकुटुम्बभारः । केचित् तु-रथेन तरति-रथंतरं सामेत्यकर्मणोऽपीच्छन्ति ।।११२॥
धारेधर च ॥ ५. १. ११३ ॥
कर्मणः पराद् धारयतेः संज्ञायां खः प्रत्ययो भवति, धर्' इत्ययमादेशश्च । वसु धारयति-वसुंधरा पृथ्वी । युगंधरः, सीमंधरः, तीर्थकरावेतौ । संज्ञायामित्येव-छत्रधारः ।।११३॥
पुरंदर-भगंदरौ ॥ ५. १. ११४ ॥
एतौ संज्ञायां खप्रत्ययान्तौ निपात्येते । पुरो दारयति-पुरंदरः शक्रः, भगं दारयतिभगंदरो व्याधिः । दारयतेह्रस्वः पुरोऽमन्तता च निपात्यते । पुरशब्दपूर्वस्य तु पुरदार इति भवति ॥११४॥
न्या० स०-पुरन्दर०-पुरशब्दपूर्वस्येति-निपातनस्येष्टविषयत्वात् । वाचंयमो व्रते ॥ ५. १. ११५ ॥
वतं शास्त्रीयो नियमः, तस्मिन् गम्यमाने वाचः कर्मणः पराद यमेर्धातोः खो वाचइचामन्तता निपात्यते । वाचं यच्छति नियमयति वा-वाचंयमो व्रती। व्रत इति किम् ? वाग्यामोऽन्यः ॥११५॥