SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ पाद - १, सूत्र - ७४-७६ ] श्री सिद्धहेमचन्द्र शब्दानुशासने पंचमोऽध्यायः [ २२५ आङ्पूर्वश्वरि:- कल्याणाचार:, कल्याणाचारा । सुख प्रतीक्षः, सुखप्रतीक्षा, बहुक्षम: बहुक्षमा । घञन्तैः शीलादिभिर्बहुव्रीहौ सति धर्मशीलादयः सिध्यन्ति, अण्बाधनार्थं तु वचनम् श्रणि हि स्त्रियां ङी: स्यात्, तथा च धर्मशीलोत्याद्यनिष्टं रूपं स्यात् । एवंप्रायेषु च बहुव्रीह्याश्रयणे अम्भोऽतिगमेति स्यात्, अम्भोतिगामी चेष्यते । कामीति ण्यन्तस्योपादानादण्यन्तादव-पयस्कामीति ण्यन्तस्य तु णे सति पयःकामेति भवति । अत एव च व्यन्तनिर्देशादण्यन्त निर्देशे "अतः कृ· कमि कंस० (२-३५ ) इत्यादौ केवलस्यैव कमेर्ग्रहणम्, तेन-णे सति सकारादेशो न भवति ।। ७३ ।। न्या० स० - शीलिकामि० - अल्घञन्तैरिति - ण्यन्तेभ्योऽलि अण्यन्तेभ्यस्तु घञि । अम्भोतिगमेति स्यादिति - अतिगम्यते 'युवर्ण' ५ -३ - २८ इत्यलि बहुव्रीहौ न चैतदिष्यते, स्थिते तु अम्भः कर्म्म अतिगच्छति 'कर्मणोऽण्' ५-१-७२ । . गायोऽनुपसर्गा ॥ ५. १. ७४ ॥ कर्मणः परादनुपसर्गाद् गायतेष्टक् प्रत्ययो भवति । वक्रं गायति वक्रगः, वक्रगी; सामगः सामगी । अनुपसर्गादिति किम् ? वक्रसंगायः, खरसंगायः । वक्रादयो गीतविशेषाः । गायतिनिर्देशो गाड़ निवृत्त्यर्थः ॥ ७४ ॥ सुरा - शीधोः पित्रः ।। ५. १. ७५ ।। सुरा - शीधुभ्यां कर्मभ्यां परादनुपसर्गात् पिबतेष्टक् भवति । सुरां पिबति - सुरापः, सुरापी; शीधुपः शीधुपी । सुराशीधोरिति किम् ? क्षीरपा बाला । पिब इति किम् ? सुरां पाति- सुरापा । कथं संज्ञायां सुरापा सुरापीति ? पाति पिबत्योर्भविष्यति । न च धात्वर्थभेद:, संज्ञासु धात्वर्थस्य व्युत्पत्तिमात्रार्थत्वात् ॥७५॥ न्या० स०- सुराशीधो०- कथमिति - अत्र ङीविकल्पः कथमित्याशङ्का । आतो डोsह्वा वामः ।। ५. १. ७६ ।। कर्मणः परादनुपसर्गात् ह्वा वा मार्वाजतादाकारान्ताद् धातोर्डः प्रत्ययो भवति । गां ददाति - गोदः, कम्बलद:, पाष्णित्रम् श्रङ्गलित्रम्, ब्रह्मज्यः, वपुर्वीतवान्-वपुर्व्यः । अह्नावा-म इति किम् ? स्वर्गह्वायः, तन्तुवायः, धान्यमाथः, अणेव । कथं मित्रह्नः ? "क्वचित् " ( ५- १ - १७१ ) इत्यनेन डः । अनुपसर्गादित्येव ? गोसंदायः, वडवासंदायः । उपसगैरव्यवधानतैवेत्यण् ॥ ७६॥ न्या० स० - आतो डो- अनिद्दिष्टार्थास्त्रिष्वपि कालेषु भवन्तीति वपुर्व्य इत्यत्र भूतेऽपि ङ: । तन्तुवाय इति वातिवायत्योरकर्मकत्वान्नग्रहणम् । धान्यमाय इति-धान्यं माति मिमीते मयते वा । अव्यवधानतैवेति- नन्वणपि ना प्राप्नोति कर्मण उपसर्गेण व्यव
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy