________________
२२६ ]
बृहद्वत्ति-लघुन्याससंवलिते
[पाद-१, सूत्र-७७-८२
हितत्वादित्याह-इत्यण् इति । एतत् कुतो लभ्यते । 'गायोऽनुपसर्गाट्टक्' ५-१-७४ सूत्रे । उपसर्गवर्जनात्, अन्यथा कर्मणः परात् उपसर्गव्यवधाने न प्राप्नोत्येव ।
समः ख्यः॥ ५. १. ७७ ॥
कर्मणः परात् संपूर्वात् ख्या' इत्येतस्मात् डो भवति । गां संख्याति संचष्टे वागोसंख्यः, पशुसंख्यः । उपसर्गार्थ वचनम् ।।७७ ।
दश्वाङः ॥ ५. १. ७८ ।।
कर्मणः परादाङ्पूर्वाद् ददातेः 'ख्या' इत्येतस्माच्च डो भवति । दायमादत्ते-दायादः, स्त्रियमाचष्टेस्च्याख्यः, प्रियाख्यः । इदमुत्तरं चोपसर्गार्थं वचनम् ।।७।।
प्राज्ज्ञश्च ॥ ५. १. ७१ ॥
कर्मणः परात् प्रपूज्जिानातेर्दारूपाच्च डो भवति । पथिप्रज्ञः, प्रपाप्रदः । इह पूर्वसूत्रे च दारूपं गृह्यते, न संज्ञा ज्ञा-ख्यासाहचर्यात् । पूर्वसूत्रे तु दाग एव ग्रहणं तस्यैवाङा योगात तेन स्तनौ प्रधयति-स्तनप्रधायः ।।७।।
न्या० स०-प्राज्ञश्च०-दारुपं गृह्यते इति-तेन दांव्दैवोरपि ग्रहस्तेन केदारप्रदो भोजनप्रदश्चेति सिद्धम् ।
आशिषि हनः ।। ५. १.८०॥
आशिषि गम्यमानायां कर्मणः पराद्धन्ते? भवति । शत्रु वध्यात्-शत्रुहः, पापह, दुःखहः । गतावपीति कश्चित् , कोशं हन्ति-क्रोशहः ।।८०॥
क्लेशादिभ्योऽपात् ॥ ५. १. ८१ ॥ क्लेशादिभ्यः कर्मभ्यः परादपपूर्वाद्धन्तेर्डो भवति, अनाशीरर्थ आरम्भः ।
क्लेशमपहन्ति-क्लेशापहः, तमोपहः, दुःखापहः, ज्वरापहः, दर्यापह, दोषापहः, रोगापहः, वातपित्तकफापहः विषाग्निदापहः । बहुवचनाद् यथादर्शनमन्येभ्योऽपि भवति । कथं 'दाघाट:, चार्वाघाट: ? घटतेरणि संज्ञायां भविष्यति । चारु आहन्तीति-चार्वाधातो हन्तेरेव । दार्वाधातोऽपि तहि स्यात, असंज्ञायामिष्यत एव । एवमसंज्ञायां संपूर्वाभ्यां घटि-हनिभ्यां-'वर्णसंघाटः, वर्णसंघातः, पदसंघाटः, पदसंघातः' इत्यादि सिद्धम्, हन्तेरेव वा पृषोदरादित्वाद् वर्णविकारः । ८१।।
न्या० स०-क्लेशादिभ्यो-कथं दाघाट इत्यादि-दारावाङो हन्तेरण अन्तस्य च ट: संज्ञायां चारौ तु ड इति परेषां सूत्रद्वयमत्र तत् स्वमते कथमित्याह-घटतेरणीति-दारुः सारसः, चारुस्तु जीवभेदस्तमाघटते संबध्नाति ।
कुमार-शीर्षाण्णिन् ॥ ५. १. ८२ ॥