________________
पाद - १, सूत्र - ३६-४२ ] श्रीसिद्धहेम चन्द्रशब्दानुशासने पंचमोऽध्यायः
[ २१७
0
न्या० स० - खेयमृषो ० - निवृत्तमिति निपातनस्येष्टविषयत्वात् । निखेयमिति- द्योतकत्वात् न्यादिप्रयोगेऽपि भवति ।
कुप्यभिद्योदय - सिध्यतिष्य-पुष्य युग्या ऽऽज्य-सूर्य नाम्नि
।। ५. १. ३१ ॥
एक्यबन्ताः संज्ञायां निपात्यन्ते । गुपेः क्यप् आदिकत्वं च धनेऽर्थे । गोप्यते तदिति - कुप्यं धनम्, गोप्यमन्यत् । भिदेरुज्भेश्च नदेऽभिधेये क्यप् उज्झेर्घत्वं च । भिनत्ति कूलानि इति - भिद्यः, उज्झत्युदकम् - उद्ध्यः, अन्यत्र - भेत्ता, उज्झिता ।
सिधि- त्विषि-पुषिभ्यो नक्षत्रेऽभिधेये क्यप् त्विषेर्वलोपश्च । सिध्यन्ति त्वेषन्ति पुष्यन्ति अस्मिन् कार्याणीति सिध्यः, तिष्यः, पुष्यः, अन्यत्र - सेधनः, त्वेषणः, पोषणः । युजेः क्यप् गत्वं च वाहनेऽभिधेये । युञ्जन्ति तदिति-युग्यं वाहनं गजाश्वादि, योग्यमन्यत् । आङ पूर्वादजेर्धृतेऽर्थे क्यप् । आञ्जन्त्यनेनेति - आज्यं घृतम्, आञ्जनमन्यत् । सर्तेः क्यप् ऋकारस्योर्, सुवतेर्वा क्यप् रान्तश्व देवतायाम् । सरति सुवति वा कर्मसु लोकानितिसुर्यो देवता । बहुलाधिकारानिपातनसामर्थ्याद् वाऽनुक्तोऽपि निपातनेषु कारकविशेषो गम्यते ।। ३९ ।।
दृ-वृग्-स्तु-जुषेति-शासः ।। ५. १. ४० ॥
एभ्यः क्यप् भवति ।
दृ-आदृत्यः । वृग् - प्रावृत्यः । वृङस्तु वार्या- ऋत्विजः । स्तु- स्तुत्यः, अवश्यस्तुत्यः । जुष्- जुष्यः । एतीति इणिकोर्ग्रहणम् । इत्यः, अधीत्यः । प्रयतेरिङश्च न भवतिउपेयम्, अध्येयम् । इकोऽप्यध्येयमित्येके । ईयतेरप्युपेयमिति भवति । शास्- शिष्यः, आशासेस्तु "आशास्यमन्यत् पुनरुक्तभूतम् " ( रघुवंशे ) इति । कथम् "अनिवार्यो गजैरन्यैः स्वभाव इच देहिनाम् ।" इति, संभवतेरन्यत्रापि वृङ् ॥ ४० ॥
न्या० स०-दृवृग् - इणिको ग्रहणमिति - इङस्तु परस्मैपद्यादादिकसाहचर्यात् निरासः । आशास्यमन्यदिति -आङ : क्वावेवेति नियमान्न शिषादेशः ।
ऋदुपान्त्यादकपि-वृदृचः ।। ५. १. ४१ ॥
ऋकारोपान्त्याद् धातोः कृषि-वृति ऋचिवजितात् क्यप् भवति ।
वृत्यम्, वृध्यम्, गृध्यम्, शृध्यम् । अकृपि चहच इति किम् ? कल्प्यम्, चर्त्यम्, अर्च्यम् ।।४१।।
कृ-वृषि- मृजि-शंसि गुहि दुहि जपो वा । ५. १४२ ॥
एभ्य क्यप् वा भवति ।
कृत्यम्, कार्यम्, वृष्यम्, वर्ण्यम्, मृज्यम्, मार्ग्यम्, शस्यम्, शंस्यम्, गुह्यम्,