________________
२१६ ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-१, सूत्र-३४-३८
स्वामि-वैश्य इति किम् ? आर्यः ॥३३॥ न्या० स०-स्वामिवैश्येऽर्यः--निपातनस्येष्टविषयत्वात् संज्ञायामेव निपातनम् । वह्य करणे ।। ५. १. ३४ ॥ वहेः करणे यो निपात्यते । वहन्ति तेनेति-वह्य शकटम, वाह्यमन्यत् ॥३४।। नाम्नो वदः क्यप च ॥ ५. १. ३५ ॥ अनुपसर्गादिति वर्तते, अनुपसर्गानाम्नः पराद् धदेः क्यप् यश्च प्रत्ययौ भवतः ।
ब्रह्मोद्यम् , ब्रह्मवद्यम् ; सत्यवद्यम् , सत्योद्यम् । नाम्न इति किम् ? वाद्यम् । अनुपसर्गादित्येव ? प्रवाद्यम् , अनुवाधम् । ककारः कित्कार्यार्थः, पकार उत्तरत्र तागमार्थः ॥३५॥
हत्याभूयं भावे ॥ ५. १.३६ ॥
अनुपसर्गानाम्नः परौ 'हत्या भूय' इत्येतौ भावे क्यबन्तौ निपात्येते । हन्तेः स्त्रीभावे क्या तकारश्चान्तादेशः ।
ब्रह्मणो वधः-ब्रह्महत्या, भ्रूणहत्या, दरिद्रहत्या, श्वहत्या। भवतेनंपुसके भावे क्यप् । ब्रह्मभूयं गतः, देवभूयं गतः, ब्रह्मत्वं देवत्वं गत इत्यर्थः । भाव इति किम ? श्वघात्या वृषली। नाम्न इत्येव ? हतिः, धातः, भव्यम् ।
हन्तेर्भावे ध्यण् न मवस्यनभिधानात, तथा च बहुलाधिकारः । अनुपसर्गादित्येव ? उपहतिः, प्रभव्यम् ॥३६॥
न्या० स०-हत्याभूयं-हत्या च भूयं चेति वाक्यं कार्य, भूयस्य नपुंसके निपातनज्ञापनार्थम् । क्यबन्ताविति-चानुकृष्टत्वात् यो नाऽनुवर्तते । ब्रह्मणो वध इति-संबन्धे षष्ठो अकर्मकस्य विवक्षणात् । हतिरिति-'सातिहेति' ५-३-६४ इति निपातनबाधनार्थं श्वादिभ्यः क्तिः । तथा च बहुलाधिकार इति-एतदर्थमेव बहुलाधिकारोऽनुवर्तते इत्यर्थः ।
अग्निचित्या ॥ ५. १. ३७ ॥ अग्नेः पराच्चिनोतेः स्त्रीभावे क्यप् निपात्यते । अग्नेश्चयनमग्निचित्या ।।३।। खेय-मृषोद्य ॥ ५. १. ३८ ॥
अनुपसर्गादिति नाम्न इति च निवृत्तम् । खेय मृषोद्य' इत्येतो क्यबन्तौ निपात्येते । खनेय॑णोऽपवादः क्यप् , अन्त्यस्वरादेरेकारश्च ।
खन्यत इति-खेयम् , निखेयम् , उत्खेयम् । मृषापूर्वाद् ववतेः पक्षे ये प्राप्ते नित्यं क्यप् । मृषोद्यते-मृषोत्रम् । नात्र भाव एवेति योगविभागः ।।३।।