________________
२१८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-१, सूत्र-४३-४५
गोह्यम्, दुह्यम्, दोह्यम् । जप्यम्, जाप्यम्, जपेरपि क्यबभावपक्षे ध्यण् विकल्पसामर्थ्यात् । ४२॥
__ न्या० स०-कृवृषि-क्यबऽभावपक्षे ध्यणिति-'शकितकि' ५-१-२९ इति या प्रत्यये तु विशेषाऽभावः।।
जि-विपू-न्यो हलि-मुञ्ज-कल्के ॥ ५. १. ४३ ॥
जयतेविपूर्वाभ्यां च पू-नीभ्यां यथासंख्यं हलि-मुञ्ज-कल्केषु कर्मसु वाच्येषु क्यप प्रत्ययो भवति ।
महद्धलं हलिः । मुञ्जस्तृणविशेषः । कल्कस्त्रिफलादीनाम् । जीयते निपुणेनेतिजित्या जित्यो वा हलिः । पूङ् पूग् वा-विपवितव्यो विपूयो मुजः । पूगो नेच्छन्त्येके । विनेतव्यस्तैलादिना मध्ये इति-विनीयः कल्कः । हलि-मुज-कल्क इति किम् ? जेयम् , विपव्यम् , विनेयम् ॥४३।।
न्या० स०-जिविपून्यो०-तैलादिना मध्ये इति-तैलादिना कत्मिनो मध्ये विने. तव्यः, कोऽर्थः ? प्रापयितव्यः, यद्वा मध्ये वर्तमानेन तैलादिना उत्कर्षं विनेतव्यः ।
पदा- स्वैरि-बाह्या-पक्ष्ये ग्रहः॥ ५. १. ४४ ॥
विभक्त्यन्तं पदम् , अस्वैरी परतन्त्रः, बाह्या बहिवा, पक्ष्यो वर्यः, एश्वर्थेषु ग्रहः क्यप् भवति, ध्यणोऽपवादः ।
प्रगृह्यते-विशेषेण ज्ञायते प्रगृह्य पदम्, यत् स्वरेण न संधीयते-अग्नी इति । अवगृह्यते-नानावयवसात् क्रियते-अवगृह्य पदम् । अस्वैरिणि-गृह्याः कामिनः, रागादिपरतन्त्रा इत्यर्थः । बाह्यायां-ग्रामगृह्या श्रेणिः, नगरगृह्या सेना, बाह्य त्यर्थः, स्त्रीलिङ्गनिर्देशो लिङ्गान्तरेऽनभिधानख्यापनार्थः। पक्ष्येत्वद्गृह्यः, मद्गृह्यः, "गुणगृह्या वचने विपश्चितः" (किराते), तत्पक्षाश्रिता इत्यर्थः । एण्विति किम् ? ग्राह्य वधः ।।४४।।
न्या० स०-पदास्वैरि०-प्रगृह्यपदमिति-परैः स्वरेणाऽसंघीयमानस्य पदस्य प्रगृह्यमिति संज्ञा विहिता । नानावयवसाक्रियते इति-यथा पचतीत्यत्र पच् शव् तिव् इत्य:वयवाः ।
भृगोऽसंज्ञायाम् ॥ ५. १. ४५ ॥ भृगो धातोरसंज्ञायां क्यप् भवति ।
भ्रियते-मृत्यः, पोष्य इत्यर्थः । प्रसंज्ञायामिति किम् ? भार्यो नाम क्षत्रियः, भार्या पत्नी । ननु च संज्ञायामपि स्त्रियां भृगो नाम्नि" (५-३-९८ ) इति क्यबस्ति, यथाकुमारभृत्या ? न-तस्य भाव एव विधानात् ।।४५।।
न्या० स०-भृगोसं०-कुमारपोषणप्रतिपादकं शास्त्रमप्युपचारात् कुमारभृत्या ।