________________
पाद-१, सूत्र-२१-२४ ] श्रोसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२१३
पाङ्पूर्वाभ्यां सुनोति-नमिभ्यां यौत्यादिभ्यश्च धातुभ्यो ध्यण् भवति, यापवादः । याव्यम् , वाप्यम् , राप्यम्, लाप्यम् , अभिलाप्यम् , अपत्राप्यम् , डेप्यम् । दभिः सौत्रो बन्धने वर्तते, दाभ्यम्, अवदाभ्यम् , आचाम्यम् , पानाम्यम् , नमिरन्तर्भूतण्यर्थः सकर्मकः, अकर्मका अपि हि धातवो ण्यर्थ वर्तमानाः सकर्मका भवन्ति, यथानेमि नमन्ति।
डिपेः कुटादित्वाद् ये गुणो न लभ्यत इति ध्यण विधीयते । आनमेनेच्छन्त्येके ॥२०॥
न्या० स०-प्रासयु०-दभिः सौत्र इति-दम्भेस्तु दम्भ्यमिति । आचाम्यमिति-केवलस्य 'मोऽकमि' ४-३-५५ इति वृद्धिप्रतिषेधे घ्यणि ये वा न विशेष इति सोपसर्गस्योदाहरणं, ननु डिपे: 'शकित कि' ५-१-२९ इति यप्रत्ययेऽपि डेप्यमिति भविष्यति किमत्र ग्रहणेन ? इत्याह-डिपेः कुटादीत्यादि ।
वाऽऽधारेऽमावस्या ॥ ५. १. २१ ।।
अमापूर्वाद् वसतेराधारे घ्यण प्रत्ययो धातोः पक्षे ह्रस्वश्च निपात्यते । प्रमाशब्दः सहार्थः, सह वसतोऽस्यां सूर्या-चन्द्रमसाविति-अमावस्या अमावास्या वा रूढया तिथिविशेषः । पक्षे यमकृत्वा ह्रस्वनिपातनम् "अश्चामावास्यायाः" ( ६-३-१०३ ) इत्यत्रैकेदशविकृतस्यानन्यत्वादमावास्याशब्देन अमावस्याशब्दस्यापि ग्रहणार्थम् ॥२१॥
न्या० स०-वाधारेऽमा-पक्षे यमकृत्वेति-वाधारेमावसो य इति क्रियतां घ्यण तु वाग्रहणादाधारेऽपि भविष्यतीति भावः । अमावस्याशब्दस्यापीति-अन्यथा यध्यणन्तयोरऽत्यन्तभेदात् यान्तस्य ग्रहणं न स्यात् ।
संचाय्य-कुण्डपाय्य-राजसूयं क्रतो ॥ ५. १. २२ ॥
एते कतावभिधेये ध्यणन्ता निपात्यन्ते, आधारे कर्मणि वा, निपातनादेवायादेशदीर्घत्वे अपि भवतः ।
संचीयते सोमोऽस्मिन संचोयते वाऽसाविति-संचाय्यः क्रतुः, संचेयोऽन्यः । कुण्डैः पोयते सोमोऽस्मिन् कुण्डैः पीयते इति वा-कुण्डपाय्यः क्रतुः, ससोमको हि यागः क्रतुः, कुण्डपानोऽन्यः। राजा सूयतेऽस्मिन् राजा वा सोतव्य इति- राजसूयः क्रतुः ॥२२॥
प्रणाय्यो निष्कामा- सम्मते ॥ ५. १, २३ ।।
प्रपून्नियतेय॑ण आयादेशश्च निपात्यते, निष्कामेऽसंमते वाऽभिधेये । प्रणाय्योऽन्तेवासी. विषयेष्वनभिलाष इत्यर्थः, प्रणाय्यश्चौरः, सर्वलोकासम्मत इत्यर्थः, प्रणेयोऽन्यः।२३। धाय्या-पाय्य-सान्नाय्य-निकाय्यमृङ्-मान-हवि-निवासे॥५.१.२४॥
धाय्यादयः शब्दा ऋगादिष्वर्थेषु यथासंख्यं घ्यणन्ता निपात्यन्ते. निपातनादेव च सर्वत्रायादेशः ।
दधातेऋचि-धीयते समिदग्नावनयेति-धाय्या ऋक्, रूढिशब्दत्वात काश्चिदेव