SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २१४ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद-१, सूत्र-२५-२९ । ऋच उच्यन्ते, अन्यत्र धेया। मोयते येन तम्मानम्, तत्र माठ आविपत्वं च, मीयते तेनेति- पाय्यं मानम्, मेयमन्यत् । संपूर्वान्नयतेहविषि समो दीर्घत्वं च, सान्नायं हविः, अयमपि रूढिशब्दत्वाद्धविविशेषेऽवतिष्ठते, संनेयमन्यत् । निपूर्वाचिनोतेनिवासे आदिकत्वं च । निकाय्यो निवास: निचेयमन्यत् ।।२४॥ परिचाय्योपचाय्या-ऽऽनाय्य समूह्य-चित्यमग्नौ ।। ५. १. २५ ॥ एतेऽग्नौ निपात्यन्ते, पर्युपपूर्वाच्चिनोतेय॑ण प्रायादेशश्च । परिचीयत इतिपरिचाय्योऽग्निः, एवमुपचाय्यः, परिचेयः, उपचेयोऽन्यः । आङ्पूर्वान्नयतेय॑ण् आयादेशश्च । गार्हपत्यादानीयते इत्यानाय्यो दक्षिणाग्नि, स ह्याहवनीयेन सह एकयोनिरेवोच्यते, आनेयोऽन्यः । केचिदग्निविशेषादन्यत्राप्यनित्यविशेष इच्छन्ति-मानाय्यो गोधुक्, अनित्य इत्यर्थः । संपूर्वाद् वहेय॑ण ऊत्वं च वशब्दस्य. समुह्यत इति-समूह्यः, अन्यः संवाह्यः । अन्ये तु संपूर्वाद्रग्नावेवेति नियमार्थ घ्यणं निपातयन्ति, अग्नेरन्यत्र सहितव्य इत्येव । वहेस्तु तन्मतेऽग्नावपि संवाह्य इति भवति । चिनोतेः क्यप् , चित्योऽग्निः, चेयोऽन्यः ॥२५॥ न्या० स०-परिचाय्यो०-एकयोनिरेवेति-आहवनीयोऽग्निदक्षिणाग्निश्च निर्वाणो गार्हपत्यादेवानीयेते, अतो द्वावप्येकयोनी गार्हपत्याग्निस्त्वरणिनिर्मन्थनादेवोत्पाद्य इति न स आनाय्यः । याज्या दानर्चि॥ ५. १. २६॥ यजेः करणे ध्यण् निपात्यते, दानय॑भिधेयायाम् । इज्यतेऽनयेति-याज्या, 'त्यज्यज्-प्रवचः" (४-४-११८) इति गत्वाभावः ॥२६॥ ताव्या-ऽनीयौ ॥ ५. १. २७॥ धातोः परौ 'तव्य अनीय' इत्येतौ प्रत्ययौ भवतः । शयितव्यम्, शयनीयम्; वस्तव्यम्; वसनीयम् , कर्तव्यम्, करणीयं भवता, कर्तव्यः करणीयः कटः ॥२७॥ य एचाऽऽतः ।। ५. १. २८ ।। ऋवर्ण-व्यञ्जनान्तात् ध्यणो विहितत्वात परिशिष्टात स्वरान्ता पातोर्यः प्रत्ययो भवति, अन्त्याऽऽकारस्य चैकारो भवति । दित्स्यम्, धित्स्यम्, चेयम्, जेयम्, नेयम्, शेयम् , नव्यम्, हव्यम्, लव्यम्, भव्यम् । एच्चातः-देयम्, धेयन् ॥२८॥ शकि-तकि चति-यति-शसि-सहि-यजि भजि-पवर्गात् ॥५. १. २१॥ शक्यादिभ्यः पवर्गान्तेभ्यश्च धातुभ्यो यः प्रत्ययो भवति, ध्यणोऽपवादः । शक्यम् , तक्यम्, चत्यम् , यत्यम् , शस्यम् , सह्यम् , यज्यम् , भज्यम् । पवर्ग-तप्यम् , लभ्यम् , गम्यम् । यजेः "त्यज-यज्-प्रवचः' (४-१-११०) इति प्रतिषेधाव भजेश्व बाहुलकाद् ध्यणपि-याज्यम् , भाग्यम् । यजि-भजिम्यां नेच्छन्त्येके।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy