________________
२१२]
बृहद्वृत्ति लघुन्याससंवलिते
[पाद-१, सूत्र-१७-२०
बन्धोऽप्रयोगी' इति सारूप्यमेव । प्राक् क्तेरिति किम् ? कृतिः, चितिः, रक्षितम्, रक्षणम्।। घनादिर्न भवति; चिकीर्षा, जिहीर्षा, क्तिर्न भवति ; ईषत्पानः, सुपानः, दुष्पानः, खल न . भवति । अपवादत्यादिविषये तु असरूपोऽप्युत्सर्गत्यादिनं प्रवर्तते इति "श्रु-सद" (५-२-१) इत्यादिसूत्र वाग्रहणेन ज्ञापयिष्यते ।।१६।।
न्या० स०-असरूपोप०-अपोद्यते हेठ्यते उत्सर्गोऽनेनेति व्यजनाद् घत्र । उत्सर्ग इति-उत्क्रम्याऽपवादं सृज्यते विधीयत इति घन । नन्वत्र वा ग्रहणं किमर्थं यतोऽपवादो विशेषविधानादत्सर्गस्तू पक्षे अस्माद् वचनाद् भविष्यति ? सत्यं,-वा ग्रहणाऽभावे सर्वोऽप्यूत्सर्गोऽपवादे एव प्रवर्तते ततः कर्तेत्यादौ अपवादविषयाभावात् तृजादिर्न स्यात् । ज्ञातेत्यादौ त्वपवादस्य कस्य दर्शनात् स्यात् ? औत्सगिक इति-उत्सर्जनमिति यदा भावे घन तदा प्रयोजनार्थे इकण् , यदा तु कर्मणि घन तदा विनयादिभ्यः स्वार्थिक इकण् । अपवादत्यादिविषये विति-अत्र सूत्रे कृद्विशेषाऽनभिधानात्त्यादिरपि प्राप्नोति । वाग्रहणेनेति-यद्येनापवादत्यादिविषयेऽसरूप उत्सर्गस्त्यादिः स्यात् तदा कि तत्र वाकरणेनेत्यर्थः ?
ऋवर्ण-व्यञ्जनाद् ध्यण ॥ ५. १. १७ ॥
ऋवर्णान्ताद् व्यञ्जनान्ताच्च घातोय॑ण प्रत्ययो भवति । कार्यम्, हार्यम; पाक्यम् , वाक्यम्। णकारो वृद्ध्यर्थः । घकार: "क्तेऽनिट:०" ( ४.१-१११ ) इत्यत्र विशेषणार्थः ।।१७।।
पाणि-समवाभ्यां सृजः ॥ ५. १. १८ ॥
पाणिपूर्वात् समवपूर्वाच्च सृजेय॑ण प्रत्ययो भवति । ऋदुपान्त्यक्यपोऽपवादः । पाणिभ्यां सज्यते-पाणिसा रज्जुः, समवसृज्यते इति-समवसर्यः । पारिण-समवाभ्यामिति किम् ? सज्यम् , संसृज्यम् । 'समव' इति समुदायपरिग्रहार्थं द्विवचनम् ।।१८।।
न्या०स०-पाणिसम०-क्यपोपवाद इति-पूर्वेण सिद्धे किमर्थमऽस्यारम्भ इत्याशङ्का। उवर्णादावश्यके ॥ ५. १. ११ ॥
अवश्यस्य भावोऽवश्यं भाव इति वा अकत्रि-आवश्यकम्, तस्मिन् द्योत्ये उवर्णान्ताद् धातोर्ध्यण् भवति । लाव्यम्, पाव्यम्, यन्नियोगात् कर्तव्यमर्थप्रकरणादिना निश्चितं तत्रायं प्रत्ययः । लाव्यमवश्यम्, पाव्यमवश्यम्, अवश्यलाव्यम्, अवश्यपाव्यम्, अनावश्यंशब्देनापि अवश्यं भावो द्योत्यते, मयूरव्यंसकादित्वाच्च समासः। अवश्यस्तुत्य इति परत्वात् क्यप् । प्रावश्यक इति किम् ? लव्यम्, पव्यम् ।।१६।।
न्या० स०-उवर्णादा०-अर्थप्रकरणादिनेति-अवश्यमादिशब्दमन्तरेणे त्यर्थ । अवश्यंभावो द्योत्यते इति-यथा व्यतिलुनते इत्यादौ आत्मनेपदेनापि क्रियाव्य तिहारे व्यतिशब्दप्रयोगः तथाऽत्रापि घ्यणा द्योतितेऽप्यऽवश्यंभावेऽवश्यंशब्दप्रयोगः ।
आसु-यु-वपि-रपि-लपि-त्रपि-डिपि-दभि-चम्यानमः ॥५. १. २० ॥