________________
पाद-१, सूत्र-१२-१६ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२११
अद्यर्थाच्चाधारे ॥ ५. १. १२ ॥
अद्यर्थात-आहारात धातोर्गत्यर्थाऽकर्मक-पिब भुजेश्च यः क्तः स आधारे वा भवति । इदमेषां जग्धम्, इदं तैर्जग्धम्, इह तैर्जग्धम् । इदमेषामभ्यवहृतम्, इदं तैरभ्यवहृतम् , इह तैरभ्यवहृतम् । इदं तेषामशितम्, इदं तैरशितम् इह तैरशितम् । आरम्भे तु कर्तर्यपि भवति-इह ते अन्नं प्राशिताः, इह ते मधु प्रलोढाः । गत्यर्थादिभ्यः खल्वपिइदं तेषां यातम्, इदमहेः सृप्तम्, इदमेषामासितम्, इदमेषां शयितम् । इदं गवां पीतम् । इदं तेषां भुक्तम् । पक्षे कर्तृकर्म-भावेषु पूर्वाण्येवोदाहरणानि ॥१२॥
__न्या० स०-अद्यर्थाच्चा०-नन्विदं तैर्जग्धमित्यादौ आधाराऽभावात्कर्मणि स्वयमेव क्तो भविष्यति किं विकल्पेनेति ? न, तक्रकौण्डियन्यायेनाधार एव एभ्यः क्तः स्यात् यथा 'गत्यर्थात् कुटिले' ३-४-११ इत्यत्र यङ ।
पूर्वाण्येवोदाहरणानीति-'गत्यर्थाऽकर्मक' ५-२-११ इति सूत्रे दर्शितानि । क्वा-तुमम् भावे ।। ५. १. १३॥
वेति निवृत्तम्, 'वत्वा तुम् प्रम्' इत्येते प्रत्यया भावे धात्वर्थमात्रे वेदितव्याः । कृत्वा बजति, कतुं व्रजति, कारं कारं ब्रजति; चौरंकारमाकोशति, अतिषिवेदं भोजयति ॥१३॥
न्या० स०-क्त्वातुम०-वेति निवृत्तमिति-कारकनिवृत्तेः। भीमादयोऽपादाने ॥ ५. १. १४ ॥
भीमादयः शब्दा अपादाने साधवो भवन्ति । बिभ्यत्यस्मादिति-भीमः । एवंभीष्मः, भयानकः, चरुः, समुद्रः, स्र वः, सक, रक्षः, संकसकः, खलतिः । उणादिप्रत्ययान्ता एते "संप्रदानाच्चान्यत्रोणादयः ( ५-१-१५ ) इति निषेधेनाप्राप्ता निपात्यन्ते ।।१४।।
संप्रदानाच्चान्यत्रोणादयः ।। ५. १. १५ ॥
संप्रदानादपादानाच्चान्यत्र कारके भावे चोरणादयः प्रत्यया भवन्ति । कृत्त्वात कर्तर्येव प्राप्ताः कर्मादिष्वपि कथ्यन्ते । करोतीति-कारः, वातीति - वायुः, कषितोऽसाविवि कर्मणि-कषिः, तन्यतेऽसाविति-तनुः, ऋचन्ति तयेति-ऋक्, वृत्तं तत्रेति-वर्त्म, चरितं तत्रेति-चर्म ।।१५।।
असरूपोऽपवादे वोत्सर्गः प्राक् क्तेः॥ ५. १. १६ ॥
इतः सूत्रादारभ्य "स्त्रियां क्तिः" (५-३-९१) इत्यतः प्राक् योऽपवादस्तद्विषयेऽपवादेनासमानरूप उत्सर्ग औत्सर्गिकः प्रत्ययो वा भवति । अवश्यलाव्यम्, अवश्यलवितव्यम्, अवश्यलवनीयम् । ज्ञः, ज्ञाता, ज्ञायकः । नन्दनः, नन्दकः, नन्दयिता ।
प्रसरूप इति किम् ? ध्यणि यो न स्यात्-कार्यम्, उविषयेऽण् न स्यात्-गोदः । 'अनु