________________
२१० ]
बृहद्वृत्ति-लघु-याससंवलिते
[पाद-१, सूत्र-१०-११
जन् अनुजातो माणवको माणविकाम् , अनुजाता माणविका माणवकेन, अनुजातं माणवकेन; विजाता वत्सं गौः, विजातो वत्सो गवा, विजातं गवा। रुह-आरूढो वृक्षं भवान्, प्रारूढो वृक्षो भवता, आरूढं भवता । जु-अनुजीर्णो वृषली चैत्रः, अनुप्राप्य जीर्ण इत्यर्थः, अनुजीर्णा वृषली चैत्रेण, अनुजीर्णं चत्रण । भज-विभक्ता भ्रातरो रिक्थम् , विभक्तं भ्रातृभी रिक्थम् , विभक्तं भ्रातृभिः ।।
अकर्मका अपि हि धावत उपसर्गसम्बन्धात् सकर्मका भवन्तीति शीडादिग्रहणम् , अन्यथाऽकर्मकत्वादुत्तरेणैव सिद्धम् । श्लिष-भजी केवलावपि सकर्मकौ ॥९।।
न्या० स०- श्लिषशीङ्-अनुपूर्वो ज़ प्राप्त्युपसर्जने जरणे वर्त्तते, जनिस्तु जननोपसर्जनायां प्राप्ताविति भेदः।
प्रारम्भे ।। ५.१.१०॥
आरम्भे-आदिकर्मणि भूतादित्वेन विवक्षिते वर्तमानाद् धातोर्यः क्तो विहितः स कर्तरि वा स्यात् ।
प्रकृतः कटं भवान्, प्रकृतः कटो भवता, प्रकृतं भवता । प्रभुक्त प्रोदनं चैत्रः, प्रभुक्त मोदनश्चैत्रेण, प्रभुक्तं चैत्रेण ॥१०॥
न्या० स०-आरम्भे-भूतादित्वेन विवक्षते इति-आदिशब्दाद् वर्तमानत्वभविष्यत्त्वयोरपि परिग्रहः, यथा ज्ञातुमारभते प्रज्ञातः,कषितुं प्रारप्स्यते प्रकष्टः ।
गत्यर्था-ऽकर्मक-पिब-भुजेः।। ५. १. ११ ॥
भूतादौ यः क्तो विहितः स गत्यर्थेभ्योऽकर्मकेभ्यश्च धातुभ्यः पिब-भुजिभ्यां च कर्तरि वा भवति ।
गत्यर्थ-गतो मैत्रो ग्रामम्, गतो मैत्रेण ग्राम, गतं मैत्रेण; यातास्ते ग्रामम्, यातस्तमः, यातं तः। अकर्मक-आसितो भवान्, शयितो भवान्, आसितं भवता, शयितं भवता। सकर्मका प्रप्यविवक्षितकर्माणोऽकर्मकाः, तेन पठितो भवान, एवं-प्रख्यात', विदितः। अविवक्षितकर्मभ्यो नेच्छन्त्येके, तन्मते- कृतो देवदत्तः हृतो देवदत्तः' इत्यादि कर्तरि न भवति । काल-भावा-ऽध्वभिश्च कर्मभिः सकर्मका प्रप्यकर्मका उक्ताः, तेन त्रैरूप्यं भवति-सुप्तो भवान् मासम्, सुप्तो भवता मासः, सुप्तं भवता मासम्; एवम् – 'प्रोदनपाकं सुप्तो भवान्' इत्यादि । पिब-पयः पीता गावः, इदं गोभिः पीतम्, इह गोभिः पीतम्। भुजि-अन्नं भुक्तास्ते, इदं तैर्भुक्तम्, इह तैर्भुक्तम् ।।११।।
न्या० स०-गत्यर्थाक०-कालभावाऽध्वभिश्चेति-उपलक्षणत्वाद्देश इत्यपि ज्ञेयं, तेन सुप्तो भवान् कुरूनित्यादि द्रष्टव्यम् । तेन त्रैरूप्यं भवतीति-'कालाध्व' २-२-४२ इत्या. दिना युगपत्सकर्मकत्वमकर्मकत्त्वं चोक्त, तेनाकर्मकत्वात् कर्तरि भावे च सकर्मकात् कर्मणि प्रयोग इति त्रैरूप्यम् । सुप्तो भवान्मासमिति-अत्र यावता कर्मसंज्ञा तावता कर्मणि द्वितीया, यावता त्वऽकर्मसंज्ञा तावता कर्तरि क्तः । ..