________________
पाद - १, सूत्र ५-६ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[ २०९
संगतेऽजर्यम् ।। ५. १५ ॥
संगमनं संगतम्, तस्मिन् कर्तर्यभिधेये नञ्पूर्वाज्ञ्जीर्यतेर्यप्रत्ययो निपात्यते । न जीर्यतीति- अजर्यमार्यसंगतम्, “मृगैरजर्यं जरसोपदिष्टम्” ( रघु० स०१८, श्लो०-७ ) । सामान्यविशेषभावेन चोभयोरपि प्रयोगो भवति - " तेन संगतमार्येण रामाजयं कुरु द्रुतम् " "जर्यं संगतं नोऽस्तु" । संगत इति किम् ? अजरः पटः, अजरिता कम्बलः । कर्तरीत्येवअजायं संगतेन ॥५॥
न्या० स० - संगतेऽज० - क्रयादिकस्य जृशो निपातनं न दृष्टमित्याह- जीर्यतीति ।
रुच्या -ऽव्यथ्य-वारतव्यम् ।। ५. १. ६ ॥
एते कर्तरि निपात्यन्ते । रोचतेर्नञ्पूर्वात् व्यथतेश्च क्यप् प्रत्ययो, वसतेस्तु तव्यण् निपात्यते । रोचते इति - रुच्यो मोदको मंत्राय । न व्यथते इत्यव्यथ्यो मुनिः । वसतीतिवास्तव्यः || ६ ||
भव्य - गेय-जन्य- रम्या -ऽऽपात्याऽऽप्लाव्यं नवा ॥ ५.१.७ ॥
एते कर्तरि वा निपात्यन्ते । भावकर्मणोः प्राप्तयोः पक्षे कर्तरि विधानार्थमिदम् । मृगायति- रमयतिभ्यो यो यः प्रत्ययो यश्च जनेराङ्पूर्वाभ्यां च पति-प्लुभ्यां ध्यण् स कर्तरि वा निपात्यते । भवत्य साविति भव्यः, पक्षे- भव्यममेन। गायतीति-गेयो माणवकः साम्राम, गेयानि मारणवकेन सामानि । जायतेऽसाविति - जन्यः, जन्यमनेन । रमयत्यसौ- रम्यः, रम्यते - रम्यः । आपतत्यसौ - श्रापात्यः, श्रापात्यमनेन । आप्लवतेऽसौ - आप्लाव्यः, श्राप्लाव्यमनेन ||७||
I
प्रवचनीयादयः ।। ५.१.८॥
प्रवचनीयादयः कर्तर्यनीयप्रत्ययान्ता वा निपात्यन्ते । प्रवक्ति प्रश्न ते वा- प्रवचनीयो गुरुःशासनस्य, प्रवचनीयं गुरुणा शासनम् । उपतिष्ठत इति उपस्थानीयः शिष्यो गुरोः, उपस्थानीयः, शिष्येण गुरुः । एवं रमयतीति रमणीयो देशः । मदयतीति - मदनीया योषित् । दीपयतीति-दीपनीयं चूर्णम् । मोहयतीति मोहनीयं कर्म । ज्ञानमावृणोतीतिज्ञानावरणीयम् । एवं दर्शनावरणीयम् ||८||
श्लिष-शी-स्था-ऽऽस-वस-जन- रुह-ज-भजेः क्तः ॥ ५.१.१ ॥
एभ्यः क्तप्रत्ययो यो विहितः स कर्तरि वा भवति । श्लिष्- आश्लिष्टः कान्तां कामुकः, आश्लिष्टा कान्ता कामुकेन, प्राश्लिष्टं कामुकेन । शीङ्अतिशयितो गुरु शिष्यः, अतिशयितो गुरुः शिष्बेण, अतिशयितं शिष्येण । स्था-उपस्थितो गुरु शिष्यः, उपस्थितो गुरुः शिष्येण, उपस्थितं शिष्येण । आस्-उपासितो गुरु शिष्यः, उपासितो गुरुः शिष्येण, उपासितं शिष्येण । वस् - श्रनूषितो गुरु भवान्, अनूषितो गुरुर्भवता, अनूषितं भवता ।