________________
। अथ पञ्चमोऽध्यायः प्रथमपादः । आ तुमोऽत्यादिः कृत् ॥ ५. १. १ ॥
धातोविधीयमानस्त्यादिवजितो वक्ष्यमाणः प्रत्ययस्तुममभिव्याप्य कृत्संज्ञो भवति । घनघात्यः, उदके विशीर्णम्, गोक्षयो व्रजति । प्रत्यादिरिति किम् ? प्रणिस्ते । कृत्प्रदेशाः"लिक कृतौ नाम्नि" (५-१-७१) इत्येवमादयः॥१॥
न्या० स०-अहं आ तुमोऽत्याविः कृत-घनघात्य इति-अत्र कृत्संज्ञायां 'कारक कृता' ३-१-६८ इति समासः । उदकेविशीर्णमिलि-अत्र 'क्तेन' ३-१-६२ इति समासः, 'तत्पुरुषे कृति' ३-२-२० इत्यलुपू । गोदाय इत्यत्र तु 'ड-स्युक्तं कृता' ३-१-४६ इति सः ।
बहुलम् ॥ ५.१.२॥
अधिकारोऽयम् । कृत्प्रत्ययो यथा निविष्टार्थावरन्यत्रापि बहुलं भवति । पादाभ्यां ह्रियते-पादहारकः, गले चोप्यत इति-गलेचोपकः, मुह्यत्यनेनाऽऽत्मेति-मोहनीयं कर्म, स्नाति तेनेति-स्नानीयं चूर्णम्, एवंयानीयोऽश्वः । दीयते तस्मै इति-शानीयोऽतिथिः, संप्रायोऽस्मा इति-संपदानम् , एवं-स्पृहणीया विभूतिः । समावर्तते तस्मादिति-समावर्तनीयो गुरुः, एवमुद्धजनीयः खलः । तिष्ठन्त्यस्मिन्निति-स्थानीयं नगरम्, एवं-शयनीयः पल्यः ॥२ ॥
न्या० स०-बहुलम्-अर्थादेरिति-आदिपदादुपपदधातू गृह्यते । स्पृहणीया विभूतिरिति-स्पृह्यतेऽस्यै स्पृहणीया विभूति: कर्मतापन्ना स्पृह्यत इत्यर्थः, व्याप्यस्य 'स्पाप्य' २-२-२६ इति वा संप्रदानः संज्ञा ।।
कर्तरि ।। ५.१.३॥ . कृत्प्रत्ययोऽविशेषनिर्देशमन्तरेण कतरि भवति । कारकः, कर्ता, पञ्चः, नन्दनः।३। व्याण्ये घुर-केलिम-कृष्टपच्यम् ।। ५. १. ४ ॥
'घर केलिम' इत्येतौ प्रत्ययौ कृष्टपच्यशब्दश्च व्याप्ये कर्तरि भवतीति वेदितव्यम् । घरो वक्ष्यते । केलिमोऽत एव वचनात् ज्ञायते, कृष्टपच्ये यश्च । भज्यते स्वयमेव- मङ्गुरं काष्ठम्, एवं-भिदुरः कुशूलः, छिदुरा रज्जुः । मास-मिदि-विदा कर्तव घुरः कर्मकतुरसंभवात, भासते इत्येवंशीलो-भासुरः, एवंमेदुरः, विदुरः । केचिच्छिदि-मिदोरपि कर्तरि घरमिच्छन्ति-"दोषान्धकारभिदुरो" दृप्तास्विक्षश्चिदुरः इति । पच्यन्ते स्वमेव-क्वेलिमा माषाः, एवं-भिदेलिमास्तण्डुलाः । कृष्टे पच्यन्ते स्वयमेव-कृष्टपच्याः शालयः ॥४॥
न्या० स०-व्याप्ये घुर०-केलिमोऽत एव वचनादिति-विहाविसापचिभिद्यादेः केलिमः' ३५४ (उणादि) इति औणादिको नियतधातुविषयोऽयं तु सर्वविषय इत्याह ।