________________
पाद-४, सूत्र-१२१-१२२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[२०७
माशिषः, पूर्वेण सिद्ध नियमार्थो योगः । तेनेह न भवति-आयुराशास्ते, आशास्वहे । प्राशास्महे ॥१२०॥
न्या० स०-प्राङ:-क्वावेवेति-आङ एव क्वाविति प्रत्ययनियमस्तु न, पूर्वेणैकयोगाऽकरणात् , क्वौ व्यञ्जनकार्यमनित्यं च, तेन गिरौ गिर इत्यत्र व्यञ्जनाश्रितं न दीर्घत्वं राजनतीत्यादौ न लोपाभावश्च सिद्धः ।
खोः प्वव्यञ्जने लुक ।। ४. ४. १२१ ॥
पौ यकाररहितव्यञ्जनादौ च प्रत्यये यकास्वकारयोर्तुंग भवति । पुग्रहणमप्रत्ययार्थम् । पौ-क्नोपयति, क्षमापयति, अव्यञ्जने-बनतम्, मातम्, ऊतम्, देदिवः शेश्रिवः, अजेजीव, दिदिवान्, दिदिवासी, दिदिवांसः, कण्डूमिच्छत्तीति कण्डूयतेः क्विप् । कण्डूः । कण्डुवौ । कण्डुवः, लोलः, बोभूः । लन्युः, पून्वः, विचि तेवृदेवृडोः सुतेः, सुदेः ।।
कथं वृक्षवयतीति वृक्ष , णिलुकः स्थानिवत्त्वात् भविष्यति । यवर्जनं किम् ? क्नूय्यते, सेव्यते । व्यञ्जन इति किम् ? क्नयिता, देविता। प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणात् धात्ववयवे न भवति, व्रश्नकः ।।१२१॥
कतः कीर्तिः ॥४. ४. १२२ ॥
कृतण इत्येतस्य को इत्ययमादेशो भवति । कीर्तयति, कीर्तयतः, कोर्तयन्ति, कीतिः। कृत ऋदुपदेशोऽचीकृतदित्यत्र ऋकारश्रवणार्थः । इकारान्तनिर्देशो मङ्गलार्थः ॥१२२॥
___इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्ती चतुर्थः पादः ।।४।। इति चतुर्थोध्यायः ।
दुर्योधनोर्वीपतिजैत्रबाहु, गृहीतचेदीशकरोऽवतीर्णः ।
अनुग्रहीतुं पुनरिन्दुवंशं श्रीभीमदेवः किल भीम एव ॥
न्या० स०-कृतः कीत्तिः ऋदुपदेश इति-अयमर्थः धातुपाठे कीर्तणिति पठ्यतां किमननेत्याह-ऋकार श्रवणार्थ इति-यतः 'ऋवर्णस्य' ४-२-३७ इत्यत्र वर्णग्रहणसाम
र्थ्यात् कीर्त्यादेशो बाध्यते । ननु कृतणित्यत्र ऋकारमपनीय ऋकार इति क्रियताम् , एवं च ऋवर्णस्येत्यत्रापि वर्णग्रहणं न कार्यं भवेत् ? सत्यं, कृत इति निर्देशे कृते तु कृतैत् वा गृह्यते इति संदेहः स्यात् ।
इत्याचार्य० चतुर्थोऽध्यायः । गृहीतचेदीशकर-इति पाण्डवभीमपक्षे चेदीशो दुःशासनस्तद्धस्तो हि भीमेन कृत्तः, द्वितीयपक्षे तु चेदीशो डाहालीयः कर्णः स गृहीतकरो गृहीतराजदेयभागः, तस्माद्धि मालवेशे सुवर्णमंडविकां भीमदेव आनिनाय ।