________________
२०६]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद-४, सूत्र-११७-१२०
ऋकारान्तस्य धातोः किति ङिति च प्रत्यये परे निर्देशात् ऋकारस्यैव स्थाने इरित्ययमादेशो भवति । तीर्णम्, दीर्णम्, आस्तीर्णम्, विशीर्णम् , किति -किरति, गिरति । बहुवचनं लाक्षणिकस्यापि परिग्रहार्थम् । चिकीर्षति, जिहीर्षति । विडतीति किम् ? तरति ।।११६॥
‘न्या० स०-ऋतां विडतीर-कारस्यैवेति-न त्वनेकवर्णः सर्वस्येति ।
ओष्ठयादुर् ॥ ४. ४. ११७ ॥
धातोरोष्ठयाद्वर्णात्परस्य ऋकारस्य डिति प्रत्यये परे उरादेशो भवति, इरोऽपवादः । पूर्तः, पूः, पुरौ, पुरः, पोपूर्यते, पोपुरति, वुवर्षति, बुभूर्षति, मुमूर्षति । दन्त्योष्ठयोऽप्योष्ठयः, तेन वुवर्षते प्रावुवर्षति । ओष्ठयादिति किम् ? तीर्णम् । धातोरिति विशेषणादिह न भवति । समीर्णम्, विडतीत्येव ? निपरणम्, निपारकः, प्रावरणम्, प्रावारकः । केचित्त उपान्त्यस्यापि ऋत उरमिच्छन्ति । पृणमणोर्यलुप तस 'अहन्पञ्चम'(४-१-१०७) इत्यादिना दीर्घत्वम् । परिपूर्णः, मरिमूर्णः । अविशेषनिर्देशासवपि संगृहीतम् ।।११७।।
- न्या० स०-ओष्ठ्यादुर्-केचित्तूपान्त्येति-ऋकारावयवयोगाद् धातुरपि ऋकारः, • "विशेषणमन्तः' ७-४-११३ इति न्यायात् ऋकारान्तत्वं सामान्याधिकरण्ये च षष्ठी स्वमते, तन्मते तु धातोः संबन्धिन ऋकारस्य उर् ततो व्यधिकरणे षष्ठीत्युपान्त्यं च सिद्धम् ।
इसासः शासोऽव्यञ्जने ॥ ४. ४. ११८॥
शास्तेरवयवस्यासः स्थानेऽङि व्यञ्जनादौ च विङति प्रत्यये परे इसित्ययमादेशो भवति । अङि,-अशिषत्, अन्वशिषत्, क्ङिति व्यञ्जने शिष्टः, शिष्टवान्, अनुशिष्टः, -शिष्ट्वा, अनुशिष्य, शिष्यः, शिष्यते, शेशिष्यते, शिष्टः, शिष्ठः, शिष्यः, शिष्मः शासः शिसित्यकृत्वा पास इस्विधानं यङ्लुपि शाशिष्ट इत्यादिप्रयोगार्थम्, अन्यथा शिष्ट इत्यादि 'स्वात् । अयञ्जन इति किम् ? सशासतुः, शशासुः, शासति । विडतीत्येव ? शास्ता, शास्त्रम्, शास्ति ॥ ११८।।
न्या० स०-इसास:-शिष्ट इत्यादीति-यङ लुबन्तस्यापि इसादेशः स्यादित्यर्थः ।
को ॥ ४. ४. १११ ॥ शासोऽवयवस्यासः स्थाने क्वाविसादेशो भवति । आर्यशी:, मित्रशीः । ११६॥
न्या० स०-क्वौ-पूर्वेणैव सिद्धे क्वाविति पृथक्करणं क्वौ व्यञ्जनकार्याऽनित्यत्वज्ञापनार्थं, तेनाऽव्ययिति सिद्धं, न च वाच्यं णिलूकः स्थानित्वं 'न सधि'१-३-५२ इत्यस्य अवस्थानात् ।
आङः॥४. ४. १२०॥ प्राङः परस्य शासोऽवयवस्यासः स्थाने क्वावेवेसादेशो भवति । आशीः. आशिषौ.