________________
+
पाद-४, सूत्र -११२-११६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [ २०५
न्या० स०-अः सृजि० - प्रसज्याश्रयणादिति प्रसज्येति क्त्वान्तं तत: प्रसज्यप्रतिबेध:, तर्हि प्रसज्यः कथम् ? सत्यं - ते लुग् वा' ३-२-१०८ इति लोपेऽव्यय संबन्धित्वाभावात् सेर्लोपाभावे भविष्यति ।
घुटीति नाश्रीयते इति - अयमर्थः अकिति धुडादौ प्रत्यये भवतीति नाश्रीयते इति । तत्प्रत्ययेति तस्माद् धातोर्छु डादौ प्रत्यये कार्यविज्ञानं, अत्र तु रज्जुसृडिति नाम्नः ।
स्पृशादिसृपो वा ।। ४. ४. ११२ ॥
स्पृशमृशकृपतृपदृपां सुपश्च स्वरात्परो घुडादौ प्रत्यये परेऽकारोऽन्तो वा भवति अकिति । प्रष्टा, स्पष्ट, स्प्रष्टुम्, स्पटु म्, स्प्रष्टव्यम्, स्पष्टव्यम्, प्रस्प्राक्षीत्, अस्पाक्षत्, स्प्रक्ष्यति, स्पयंति एवं स्रष्टा, मट, क्रष्टा, कष्ट, त्रप्ता, तप्त, द्रप्ता, दर्ता, त्रप्ता, सप्त । धुटीत्येव ? स्पर्शनम्, मर्शनम् । अकितीत्येव ? स्पृष्टः, पिस्पृक्षति ॥ ११२ ॥
I
ह्रस्वस्य तः पित्कृति ॥ ४. ४, ११३ ॥
घुटीति निवृत्तमसंभवात् अकितीति च 'सोस्तो ङनिपि' इति सूत्राकरणात् । ह्रस्वान्तस्य धातोः पिति कृत्प्रत्यये परे तोऽन्तो भवति । जगत् अग्निचित्, सोमसुत्, पुण्यकृत्, आगत्य, विजित्य प्रस्तुत्य, प्रहृत्य । ह्रस्वस्येति किम् ? ग्रामरणी, आलूय ।
पिदिति किम् ? चितम्, स्तुतम् । कृतीति किम् ? अजुहवुः । ग्रामणि कुलं वृत्रह कुलमित्यत्र तु 'असिद्धं बहिरङ्गमन्तरङ्ग' इति न भवति । सुशुः उपशूयेत्यत्रान्तरङ्गत्वाद्विशेषविहितत्वाच्च वृद्दीर्घत्वं च भवति ।। ११३ ॥
न्या० स० - ह्रस्वस्यतः- सोस्तो ज्वनिपीति-हस्वान्तादऽस्मादेव सुयजोङवनिबिति अकित्कृत्संभव इत्यर्थ:, यद्वा क्विपः पित्त्वविधानात्, नैयासिकाः कितां कृतां पित्त्वविधानमित्युत्तरं प्राहुः, यदि हि कितीति संबध्येत तदा पित्करणं निरर्थकं स्यादिति ।
जगदिति - 'दिद्युत्' ५-२-८३ इति क्रियाशब्दोऽत्र संज्ञाशब्दस्तु 'गर्मेडिद्वे वा' ८८५ ( उणादि) इति साधुः । श्रसिद्धं बहिरङ्गमिति - एकत्र क्लीबे ह्रस्वोऽन्यत्र न लोपः ।
अतो म आने ॥ ४, ४. ११४ ॥
वह आने प्रत्यये परेऽकारस्य मोऽन्तो भवति । पचमानः पवमानः, कवचमुद्वहमान:, करिष्यमाणः, विद्यमानः । अत इति किम् ? शयानः, भुञ्जानः । आन इति किम् ? पचन् । पुर्वान्तकरणं 'मव्यस्याः' (४-२-११३ ) इत्याकारनिवृत्त्यर्थम् ।। ११४।।
आसीनः ।। ४. ४. ११५ ॥
आस्तेः परस्यानस्यादेरोकारो निपात्यते । आसीनः, उदासीनः, उपासीनः, श्रध्यासीनः ।।११५ ।।
ऋतां किती ॥। ४. ४ ११६ ॥