________________
२०४ ]
बृहद्वृत्ति - लघुन्याससंवलिते [ पाद- ४, सूत्र - १-०९-१११
दुःसुलाभ इति व्यावृत्त्युदाहरणमुपपन्नम्, यत्र तु साक्षात् विपर्यस्तग्रहस्तत्र सुखार्थं गोबलीवर्द्दन्यायवत् ।
अति दुर्लभ इति- अतिशयेन सुष्ठु दुःखेन लभ्यते, दुःखस्यातिशयाऽतिशयः । नियमार्थमिति पूर्वेणैव सिद्धेऽस्यारम्भादित्यर्थः, विपरीतनियमस्तु न, 'शप उपलम्भने ' ३-३-३५ इत्यस्यैव ज्ञापकत्वात् ।
नशो घुटि । ४. ४. १०१ ॥
नश्यतेः स्वरात्परो घुडादौ प्रत्यये परे नोऽन्तो भवति । नंष्टा, नंष्टुम्, नङ्क्ष्यति, निनङ्क्षति । घुटीति किम् ? नश्यति, नशिता ।। १०९ ।।
मजेः सः ॥ ४, ४. ११० ॥
मस्जतेः स्वरात्परस्य सकारस्य स्थाने धुडादौ प्रत्यये नोऽन्तो भवति । मङ्क्ता, तुम्, यति, मिमङ्क्षति, ममङ्क्थ, अमाङ्क्षीत् । आदेशकरणं नलोपार्थम् । मग्नः, मग्नवान्, मक्त्वा, तसि मामक्तः । धुटीति किम् ? मज्जनम् ॥ ११० ॥
न्या० स०- मस्जेः सः-न लोपार्थमिति न वाच्यं मङक्ता इत्यादिषु स्वरात् परे विधीयमाने नागमे संयोगमध्यस्थत्वात् सकारस्य लोपो न प्राप्तः, यतोऽत्रैको न्स्संयोगोऽपरश्च स्ज् ततश्च द्वितीयसंयोगादौ सस्य लुक् । मग्न इत्यादौ तु सलुकि कृते 'नो व्यञ्जनस्य' ४-२-४५ इति उपान्त्यलोपे कर्त्तव्ये सलुक् असन् भवति इति नलोपार्थमादेशकरणभाणि । पाणिनौ तु सात्परो नो विहितः संयोगश्च त्रयाणामपीष्ट इति संयोगादौ सुलुक् यद्येवं मङ्क्तेत्यादौ संयोगद्वयविवक्षा एवं तहि इन्द्रिद्रीयिषतीत्यत्र दस्य द्वित्वं न प्राप्नोति, तत्रापि संयोगद्वयविवक्षायां दस्यादित्वात् । न, - 'न बदनम् ४ १-५ इत्यत्रावधारणत्वात् एवं व्याख्या कार्या, आदिरेव बदनं न द्विरुच्चते, अत्र तु नकारापेक्षया दकारोऽन्तेऽपि यद्वा द्वितीयस्याऽवयवस्य संयोगपूर्वावयवानन्तरस्य ग्रहणात् ।
अः सृजिदृशोऽकिति । ४. ४. १११ ॥
सृजिशो: स्वरात्परो घुडादौ प्रत्यये प्रकारोऽन्तो भवति 'अकिति' किति तु न भवति । स्रष्टा, स्रष्टुम्, त्रष्टव्यम्, अस्त्राक्षीत् । परत्वादकारागमे सति वृद्धिः । त्रक्ष्यति, द्रष्टा, द्रष्टुम् द्रष्टव्यम्, अद्राक्षीत्, द्रक्ष्यति, सरिस्रष्टि, सरिस्रष्टः, दरिद्रष्टि, दरिद्रष्टः । ङित्यपि नेच्छन्त्येके ।
घुटीत्येव, सर्जनम्, दर्शनम् । प्रकितीति किम् ? सृष्ट, हृष्टः सिसृक्षत, दिक्षते । प्रसज्याश्रयणात्प्रतिषेधे घुटीति नाश्रीयते, तेन सिज्लुचो घुडादित्वं प्रति वर्णाश्रयत्वेन स्थानिवद्भावाभावेऽपि कित्त्वं प्रति स्थानिवद्भावात् किदाश्रयः प्रतिषेधो भवति । प्रसृष्ट, असृष्ठाः, समदृष्ट, समदृष्ठाः । धातोः स्वरूपग्रहणे तत्प्रत्यये विज्ञानात् चेहन भवति । रज्जुसभ्याम्, देवदृग्भ्याम् ।।१११।।
T