________________
पाद-४, सूत्र-१०३-१०८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[२०३
लभः ॥ ४. ४. १०३ ॥
लभतेः स्वरात्परः परोक्षाशवजिते स्वरादौ प्रत्यये परे नोऽन्तो भवति । लम्भयति, लम्भकः, साधुलम्भी। अपरोक्षाशवीत्येव,-लेभे, लभते । लभेः परस्मैपदस्याप्यभिधानात लभन्ती स्त्रीति केचित । स्वर इत्येव,-लब्धा । योगविभाग उत्तरार्थः ॥१०३।।
आङो यि ॥ ४. ४. १०४॥
आङः परस्य लभतेः स्वरात्परो यि यकारादौ प्रत्यये नोऽन्तो भवति । आलम्भ्या गौः, आलम्भ्या बडवा । प्राङ इति किम् ? लभ्यः । योति किम् ? प्रालब्धा ॥१०॥
उपात्स्तुतौ ॥ ४.४.१०५॥
उपात्परस्य लभतेः स्वरात्परो .यकारादौ प्रत्यये परे स्तुतौ प्रशंसायां गम्यमानायां नोऽन्तो भवति। उपलम्भ्या विद्या भवता, उपलम्भ्यं शीलम् । स्तुताविति किम् ? उपलभ्या वार्ता, उपलभ्यमस्मादृषलात किञ्चित् ।।१०।।
जिख्णमोर्वा ॥ ४. ४. १०६॥
जौ रुणमि च प्रत्यये परे लभतेः स्वरात्परो नोऽन्तो वा भवति । प्रलाभि, प्रलम्भि, लाभलाभम् , लम्भलम्भम् ।।१०६॥
उपसर्गात् खल्घञोश्च ॥ ४. ४. १०७ ॥
उपसर्गात्परस्य लभेः स्वरात्परः खल्घोजिएणमोश्च परयोर्नोऽन्तो भवति । खल् ईषत्प्रलम्भम् , ईषदुपलम्भम् , दुष्प्रलम्भम् , सुप्रलम्भम् । घन,-प्रलम्भः, उपलम्भः, विलम्भः । जि-प्रालम्भि-रणम्-प्रलम्भंप्रलम्भम् । उपसर्गदिति किम् ? ईषल्लभः-लाभो वर्तते । जिरुणमोनित्यार्थमुपसर्गादेव खल्घजोरिति नियमार्थं वचनम् ।।१०७॥
न्या० स०-उपसर्गात् खल्०-उपसर्गनियमस्तु न भवति । शप् उपलम्भने' ३-३-३५ इति ज्ञापनात् ।
सुदुर्व्यः ॥ ४. ४. १०८ || .
सुदुइत्येताभ्यां व्यस्ताभ्यां समस्ताभ्यां चोपसर्गात्पराभ्यां परस्य लभतेः स्वरात्परः खल्घो : परयोर्नोऽन्तो भवति । खल्-अतिसुलम्भम्, अतिदुर्लम्भम्, घञ्-अतिसुलम्मः, अतिसुदुर्लम्भः । उपसर्गादित्येव,-सुलभम्, दुर्लभम्, सुदुर्लभम्, सुलामः, दुर्लाभः सुदुभिः । अतिसुलभमतिदुर्लभमित्यते: पूजातिकमयोरमुक्सर्गस्वात, उपसर्गादेव सुदुर्घ्य । इति नियमाणं वचनम् , बहुवचनं व्यस्तसमस्तपरिग्रहार्थम् दुस्संग्रहार्थं च ।।१०८।।
न्या० स०-सुदुर्व्यः-समस्ताभ्यां चेति-अत्र समस्तग्रहणेन विपर्यस्तावपि गृह्येते, यतः सामस्त्यं हि द्वयोरपि एकस्मिन् प्रयोगे योजनं तच्च क्रमव्युत्क्रमाभ्यां भवति, तेन