________________
२०२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-९९-१०२
उदितो धातोः स्वरात्परो नोऽन्तोऽवयवो भवति । नन्दति, निन्दति, नन्दितः, निन्दितः, कुण्डिता, हुण्डिता। अयं चोपदेशावस्थायामेव भवत्यनैमित्तिकत्वात, तेन कुण्डा हुण्डत्यादौ 'क्तेटो गुरोर्व्यञ्जनात्' (५-३-१०६) इत्यप्रत्ययः सिद्धो भवति ।।६।।
मुचादि-तृफ-दृफ-गुफ-शुभोम्भः शे ॥ ४. ४. ११ ॥
एषां स्वरानोऽन्तो भवति शे परे । मुञ्चति, मुञ्चते, सिञ्चति, सिञ्चते, विन्दति, विन्दते, लुम्पति, लुम्पते, लिम्पति, लिम्पते, कृन्तति, खिन्दति, पिशति, तृफ-तृम्फति, दृफदृम्फति, गुफ-गुम्फति, शुभ-शुम्भति, उभ-उम्भति ।
तृफादयः सनकारा अनकाराश्च तुदादिषु पश्यन्ते, तत्र तृम्फादीनां शे नस्य लुक इति तफादीनां नविधानम् । विधानसामर्थ्यात्त्वस्य लोपो न भवतीति तफति तम्फतीत्यादि द्वरूप्यं सिद्धम् । एषामिति किम् ? तुदति । श इति किम् ? मोक्ता, मोक्तुम् । मुचलती, षिचीत, विद्लुतो, लुप्लुतो, लिपीक, कृतैत्, खिदंत, पिशत्, वृत् इति मुचादिः ॥६६॥
जभः स्वरे॥४. ४. १०० ।।
जम्भतेः स्वरादौ प्रत्यये परे नोऽन्तो भवति । जम्मयति, जम्भकः, साधुजम्भी, जम्भंजम्भम्, जम्भो वर्तते । स्वर इति किम् ? जम्यम्, जंजब्धि ॥१०॥
न्या० स०-जभः स्वरे-जम्भयतीति-यभंजभ मैथुने जभुङ जभैङ जभुङ गात्रविनामे, जम्भन्तं जम्भमानं वा प्रयुङ क्ते णिग् । जंजब्धीति-ईति जंजभीति न तु नागमः, * आगमशासनमनित्यम् ॐ इति न्यायात् ।
रध इटित परोक्षायामेव ॥ ४. ४. १०१॥
रध्यतेः स्वरात्परः स्वरादौ प्रत्यये परेऽन्तो नो भवति इटि तु इडादौ तु प्रत्यये परोक्षायामेव । रन्धयति, रन्धकः, साधुरन्धी। रन्धरन्धम् । रन्धो वर्तते । इटि तु परोक्षायाम् । ररन्धिव, ररन्धिम, रेधिवान् । अत्र नस्य लुक् ।
परोक्षायामेवेति किम् ? रधिता, रषिष्यति । एवकारो विपरीतनियमनिरासार्थः, तेनेह नियमो न भवति । ररन्ध । ररन्धतुः । ररन्धुः । स्वर इत्येव । रद्धा ॥१०१॥
न्या० स०-रष इटि तु०-विपरीतनियमनिरासार्थ इति-नियमस्तु पूर्वसूत्रात्स्वराधिकारे यदत्र इट्ग्रहणं करोति तस्मादेव सिद्ध इति ।
रभोऽपरोक्षाशवि ॥ ४. ४. १०२ ॥
रभतेः स्वरात्परः परोक्षाशवजिते स्वरादौ प्रत्यये परे नोऽन्तो भवति । आरम्भयति, प्रारम्भकः, साध्वारम्भी, प्रारम्भमारम्भम्, आरम्भो वर्तते । अपरोक्षाशवीति किम् ? आरेभे, आरभते । स्वर इत्येव,-आरब्धा ।।१०२॥