________________
पाद-४, सूत्र-७६-७८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १९५
आश्वस्तः, प्राश्वसितः, पाश्वस्तवान् , आश्वसितवान् , विश्वस्तः, विश्वसितः, विश्वस्तवान्, विश्वसितवान् । व्याझ्यामेव केचिद्विकल्पमिच्छन्ति । तन्मते,-श्वसितः, श्वसितवान् , विश्वसितः, विश्वसितवान्, उच्छ्वसितः, उच्छ्वसितवान् ।
प्राविभ्यो नित्यमिड्निषेध इत्यन्ये । प्रश्वस्तः, आश्वस्तः, विश्वस्तः । श्वसेः कर्तर्ययं निषेधो भावेऽधिकरणे च नित्यमेधेट ,-श्वसिलं, निश्वमित्तमिति केचित् । जप,जप्तः, जप्तवान् , जपितः, जपितवान् , वम् ,-वान्तः, वान्तवान् , कमितः, वमितवान् । जपिवम्योनित्यमिनिषेधः जप्तः, जप्तवान् , वान्तः, वान्तवान् इत्यन्ये । रुप,-रुष्टः, रुष्टवान् , रुषितः, रुषितवान् , वेट्त्वाद्रुषेनित्यं प्रतिषेधे प्राप्ते वचनम् । स्वर् ,-तूर्णः, तूर्णवान् , त्वरितः, त्वरितवान् , संघुष-संघुष्टं, संघुषितं वाक्यम् । संघुष्टौ, संघुषितौ दम्यौ, संघुष्टवान् संघुषितवान् वाक्यम् , आस्वन्-आस्वान्तः, आस्वनितश्चैत्रः । संघुषास्वनिभ्यां परत्वात् अयमेव विकल्पः। तेनाविशब्दनेऽपि संघुष्टा रज्जुः । संघुषिता रज्जुः मनस्यपि, आस्वान्तं मनः, आस्वनितं मन इति भवति । अम्,-अभ्यान्तः, अभ्यान्तवान् , अभ्यमितः, अभ्यमितवान् ।।७५।।
न्या० स०-श्वसजप०-अयमेव विकल्प इति-न तु 'घुषे र विशब्दे' ४-४-६८ क्षुब्धविरब्ध' ४-४-७० इत्याभ्यां नित्यं प्रतिषेधः ।
हषः केशलोमविस्मयप्रतिघाते ॥ ४. ४.७६ ॥
केशलोमकर्तृ का क्रिया केशलोमशब्देनोच्यते । हरेः केशादिष्वर्थेषु वर्तमानात्परयोः क्तयोरादिरिड्वा न भवति । हृष्टा: केशाः, हृषिताः केशाः, हृष्टं हृषितं केशः, हृष्टानि हृषितानि लोमानि, हष्टं हृषितं लोमभिः, हृष्टः हृषितश्चैत्रः । विस्मत इत्यर्थः । हृष्टा हृषिता दन्ताः प्रतिहता इत्यर्थः । केशादिष्विति किम् ? हृष्टो मैत्र इत्यलोकार्थस्य हृषितश्चैत्रस्तुष्टयर्थस्य ।।७६।।
न्या० स०-हषे:-केशलोमविषया उद्घषणादिका क्रिया केशलोमशब्देनोच्यत इत्याह-केशलोमेति।
अपचितः ॥ ४. ४. ७७ ॥
अपपूर्वस्य चायतेः तान्तस्येडभावश्चिरादेशश्च का निपात्यते । अपचितः, अप. चायितः, चिनोतिः पूजार्थो नास्तीति इदं निपातनम् ॥७७॥
सृजिशिस्कृस्वसत्त्वतस्तृनित्यानिटस्थवः॥ ४. ४.७८ ॥
सृजिदृशिभ्यां सस्सटः कृगः स्वरान्तादकारवतश्च तृचि नित्यानिटो धातोविहितस्य थव आदिरिड् वा न भवति ।
सूज ,-सस्रष्ठ, सजिथ, दृश , दद्रष्ठ, दशिथ, स्कृ,-संचस्कर्थ, संचस्करिथ, स्वरययाथ, ययिथ, विवेथ, विवयिथ, निनेथ, निनयिथ, जुहोथ, जुहविथ, अत्वत् ,-शशक्थ,