________________
१९६ ]
बृहवृत्ति-लघुन्याससंवलिते
[ पाद-४, सूत्र-७९-८१
शेकिथ, पपक्थ, पेचिथ,-इयष्ठ, इयजिथ, जगन्थ, जगमिथ । सृजिदृशिस्कृस्वरात्वत इति किम् ? रराधिथ, बिभेविथ, चकर्थ । तृजिति किम् ? किति नित्यानिटो माभूत-लुलविथ ।
नित्येति किम् ? तृचि विकल्पेटो मामूव-विदुधविथ, ररन्धिथ । अनिट इति किम् ? शिश्रयिथ । थव इति किम् ? पेचिव, पेचिम । विहितविशेषणं किम् ? चर्षिथ । अदादेशस्य घसेर्वेगादेशस्य च वयेः तृच्यभावान्नित्यमेवेड् भवति जघसिथ, उवयिथ । प्रकृ. त्यन्तरस्य तु घसेः परोक्षायामपि प्रायिक एव प्रयोगः, स्कादिसूत्रेण प्राप्ते विभाषा, स्वरान्तत्वेनैव सिद्ध स्कृग्रहणम् 'ऋतः' ( ४-४-८० ) इति प्रतिषेधबाधनार्थम् ।।७।।
न्या० स०-सजिदृशि०-चर्कषिथेति-इह गुणे कृते अत्वान् न प्रथमम् । तृच्यऽभावादिति-घत्रचलि परोक्षायां च विधानात् घसादेशस्य ।
ऋतः॥ ४. ४. ७१ ॥
ऋकारान्ताद्धातोस्तृचि नित्यानिटो विहितस्य थव आदिरिट् न भवति, पृथग्योगात् वेति निवृत्तम् । जहर्थ, सस्मर्थ दध्वर्थ । ऋत इति किम् ? बिभेदिथ । तृनित्यानिट इत्येव ? सस्वरिथ । अत्रापीनिषेधमिच्छन्त्येके-सस्वर्थ । जजागरिथेत्यत्र त्वनेकस्वरत्वाच्वेनिषेधो न भवति । थव इत्येव ? जह्रिव, जह्रिम । पूर्वस्यापवादोऽयम् ।।७९।।
न्या० स०-ऋतः-पृथग्योगादिति-सूत्रारम्भसामर्थ्यादित्यर्थः, अन्यथा स्वरान्तत्वात् पूर्वेणैव सिद्धमिति ।
ऋत्येऽद इट् ॥ ४. ४.८०॥
अर्तेवगो व्यगोऽदश्च धातोः परस्य थव आदिरिट् भवति, पुनरिट्ग्रहरणान्नेति निवृत्तम् । ऋ,-आरिथ, वृग, ववरिथ, व्यग्-संविव्य यिथ, अद्-आदिथ । अर्तेः पूर्वण घृग उत्तरेण प्रतिषेधे व्येऽदोस्तु 'सजिद्दशि-(४-४-७९) इत्यादिना विकल्पे प्राप्ते वचनम् ।८०॥
__ न्या० स०-ऋवृव्ये०-वृ इति सामान्योक्तावपि वृगो ग्रहः, वृङस्त्वात्मनेपदित्वेन थवोऽसंभवः, उत्तरसूत्रे तु परोक्षा इति भणनाद् द्वयोरपि।
स्क-सृ-वृ-भृस्तुद्र -श्रु-स्रोळञ्जनादेः परोक्षायाः॥४. ४. ८१ ॥
सस्मटः करोतेः सृवृभृस्तुद्रथुस्त्र जितेभ्यश्च सर्वधातुभ्यः परस्य व्यञ्जनादेः परोक्षाया आदिरिट भवति ।
स्कृ-संचस्करिव, संचस्करिम, संचस्करिषे, लाद्यन्येभ्यः-ददिव, ददिम, ददिषे, चिच्यिवहे, चिच्यिमहे, निन्यिवहे, निन्यिमहे, जुहुविव, जुहुविम, लुलुविढ्वे, लुलुविध्वे, जहिव, जहिम, तेरिव, तेरिम, शेकिव, शेकिम, पेचिषे, पेचिध्वे, पेचिवहे, पेचिमहे । स्कृ इति स्सटा निर्देशः किम् ? केवलस्य माभूत् चकृव, चकम, चकर्थ, चकृषे । स्रादिवर्जनं किम् ? ससृव, ससृम, ससर्थ, ववृव, ववृम, ववृवहे, ववृमहे, बभूव, बभृम, बभर्थ तुष्टुव, तुष्टुम, तुष्टोथ, दुद्रुव, दुद्रुम, दुद्रोथ, श्रुश्रुव, श्रुश्रुम, श्रुश्रोथ, सुनु व, सुन म, सुस्रोथ । स्तुश्रुत्र णां सृजिदृशि'-( ४-४-७९ ) इत्यादिनापि थवि विकल्पो न भवति । अनेन