________________
१९४ ]
बृहद्वृत्ति- लघुन्याससंवलिते
[ पाद - ४, सूत्र - ७२-७५
( ४-४-६३ ) इति अनेनैव नित्यमिट्प्रतिषेधे सिद्धे योगविभागो यदुपाधविभाषा तदुपाधेः प्रतिषेध इति न्यायज्ञापनार्थम् तेन विदक् ज्ञाने विदितः । विदितवान् हृषितः, हृषितवान्, तुष्ट इत्यर्थः इत्यादि सिद्धम् ।। ७१ ॥
1
न्या० स० आदित:- योगविभाग इति - आदितो नवा भावारम्भे इत्येक एव क्रियतां किं योगविभागेनेति ? तदुपाधेरिति-अयमर्थः 'नवा भावारम्भे' ४-४-७२ इत्यनेन भावारम्भविवक्षायां विभाषा इति यदा कर्म्मणि कर्त्तरि वा विवक्ष्यते क्तस्तदा 'वेटोऽपत : ' ४-४-६२ इत्यनेनापि निषेधो न स्यात् इत्यस्य पृथगारम्भः । विदित इति - 'गमहनविद्ल ' ४-४-८३ इत्यनेन विद्लृती इत्यस्यैव वेट्त्वं न विदक् इत्यस्येत्यतो नित्यमिट् न वाच्यं 'गमहन' ४-४-८३ इत्यत्र विद्लृ इति सानुबन्धोपादानादेव विदकित्यस्य न भविष्यतीति, यतो नानुबन्धकृतानीति न्यायादनुबन्धवशाद् वैरूप्यं नानास्वरत्वं भिन्नवणत्वं च न भवतीति ।
नवा भावारम्भे ॥ ४. ४. ७२ ॥
आरम्भ आदिक्रिया, श्रादितो धातोर्भावे आरम्भे च विहितयोः क्तयोरादिरिड् वा न भवति । मिनमनेन, मेदितमनेन प्रमिन्नः प्रमेदितः प्रमिन्नवान्, प्रमेदितवान् । आदित इत्येव ? विदितमनेन प्रविदितः, प्रविदितवान् ।
भावारम्भ इति किम् ? मिन्नः, मिन्नवान् । पूर्वेण नित्यं निषेधे प्राप्ते विकल्पः ॥७२॥
शकः कर्मणि ॥ ४. ४. ७३ ॥
शकेर्धातोः कर्मणि विहितयोः क्तयोरादिरिड् वा न भवति । शक्तः शकितो वा घटः कर्तु चैत्रेण, कर्मणि क्तवतुर्नास्तीति नोदाह्रियते । कर्मणीति किम् ? शक्तः कटं कर्तुं म् चैत्रः ।। ७३ ।।
णौ दान्त - शान्त पूर्ण - दस्त - स्पष्ट छन्न- ज्ञप्तम् ॥ ४. ४. ७४ ॥
णौ सति दमादीनां क्तान्तानां दान्तादयो वा निपात्यन्ते । दम्, - दान्तः, दमितः, शम् - शान्तः, शमितः, पूरं - पूर्णः पूरितः, एषु णिलुग् निपात्यते । दासृ, - दस्तः, दासितः, स्पश् - स्पष्टः, स्पाशितः, छद्, छन्नः, छादितः, एषु ह्रस्वश्च । ज्ञा, -ज्ञप्तः, ज्ञापितः, संज्ञपितः, संज्ञप्तः, श्रत्र क्वचिद्भस्वश्च इडभावः सर्वत्र ||७४ ||
न्या० स०- णौ दान्तशान्त० स्पष्ट इति- पषी बाधने इत्यस्य स्थाने स्पशीति केचित् पठन्ति । स्पशिः सौत्रो वा स्पशन्तं प्रयुङ्क्ते णिग् स्पशिण् ग्रहणे इति चुरादिर्वा । अत्र क्वचिदिति क्वचिदिति कोऽर्थः ? ज्ञप्त इत्यत्र मारणाद्यर्थानामभावेऽपि ह्रस्व इत्यर्थः, अभावश्च तेषां पाक्षिके ज्ञापित इत्यत्र ह्रस्वाऽभावदर्शनान्निश्चीयते ।
श्वस-जप-वम-रुष-त्वर-संघुषास्वनामः ॥ ४४.७५ ॥
एभ्यः परयोः क्तयोरादिरिड् वा भवति । श्वस्तः, श्वसितः प्रस्वस्तः, प्रश्वसितः,
T