________________
पाद - ४, सूत्र - ७१ ]
श्री सिद्ध हेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [ १९३
स्वान्तमिति मनश्चेत्, मनः पर्याय, स्वान्तशब्दः । विषयेष्वनाकुलं मनः स्वान्तमित्यन्ये, अन्यत्र स्वनितो मृदङ्गः, स्वनितं मनसा घट्टितं स्पृष्टमिति यावत्, ध्वनेः ध्वान्तमिति तमश्चेत्, तमः पर्यायो ध्वान्तशब्दः, अनालोकं गम्भीर तमो ध्वान्तमित्यन्ये । श्रन्यत्र ध्वनितं तमसा । ध्वनितो मृदङ्गः । लगेर्लग्नमिति सक्तं चेत् । लमितमन्यत्र, म्लेच्छेम्लष्टमिति श्रस्पष्टं चेत्, इत्वमपि निपातनात् म्लेच्छितमन्यत् फणे: फाण्टमिति श्रनायाससाध्यं चेत्, -यदश्रापलमपिष्टमुदकसंपर्क मात्राद्विभक्त रसमौषधं कषायादि तदेवमुच्यते । श्रग्निना तप्तं यदीषदुष्णं तत्फाण्टमित्यन्ये ।
अन्ये त्व विद्यमानायासः पुरुषोऽन्यो वा सामान्येन फाण्टशब्देनाभिधीयते । फाण्ट, चित्रास्त्रपाणय इत्याहु:, - वाहेर्वाढमिति भृशं चेत्, क्रियाविशेषणमेवैतत् स्वभावात्, बाढविक्रमा इति तु बिस्पष्टपटुवत्समासः, वाहितमन्यत्, परिपूर्वस्य वृहेवृ हेर्वा परिवृढ इति प्रभुश्चेत्, -हकार लोपे ढत्वे च निपातनात् । परिवृढः प्रभुः परिव्रढय्य गतः पारिवृढी कन्या, अन्यत्र परिवृहितं परिवृ ंहितम् । केचित्तु लग्नविरिब्ध लिष्ट फाण्टवाढानि धात्वर्थस्य सक्ताद्यर्थविषयभावमात्रे भवन्तीत्याहुः । तेषां लग्नं सक्तेनेत्याद्यपि भवति । यथा लोम्नि हृष्टमिति ।। ७० ॥
न्या० स०- क्षुब्धविरिब्ध०- गत इति वाऽर्थ इति - अन्तभूतण्यर्थत्वात् गमित इत्यर्थः । क्षुधा गिरिनदीति - मथिता मथ्यमाना सती क्षोभं गमिता वेत्यर्थः । मन्थपर्यायो भवतीतितृतीयव्याख्याने मन्यस्य कोऽर्थः ? सक्तोः क्षुब्ध इति पर्यायः, तुरीये तु मन्यस्य सक्तोर्विशेषणं क्षुब्ध इति ।
क्षुभितं समुद्रेणेति - अत्र मन्थनं वा मन्थ इति द्वितीयमपि व्याख्यानं न घटते, यतस्तत्र मन्थनं विलोडनं, प्रस्तुते तु संचलनमात्रम् । क्षुभितं मन्येनेति - अत्र मन्यशब्देन मन्थानक उच्यते । ध्वान्तमिति ध्वनन्त्यत्राऽपश्यन्तः प्राहरिका इति 'अद्यर्थाच्चाधारे' ५- १-१२ इति क्तः, ध्वन्यते स्म हेयतयेति कर्मणि वा क्तः । म्लेच्छित मिति- म्लेच्छत्यव्यक्त भवति स्म व्याप्ये वा क्तः, कूटोच्चारितमित्यर्थः । चित्रास्त्रपाणय इति - चित्रास्त्राणि पाणिषु येषां 'न सप्तमी द्वादिभ्यश्च' ३-१-१६५ इति पाणिशब्दस्य न प्राग् निपातः ।
बाढविक्रमा इति यद्यऽयं क्रियाविशेषणं तत्कथमऽत्र विक्रमाभिधायी बाढशब्द: ? इत्याशङ्कायामाह - विस्पष्टपटुवदिति यथा तत्र क्रियाविशेषणेन समास्तथाऽत्रापि बाढशब्देन क्रियाविशेषणेन सः 1
हकार न लोपेति - अत्रापि हलोपनिपाताऽभावे पारिवृढीत्यर्थः । लोम्नि हृष्टमिति - यथा लोमविषये हृष्टं निपात्यते प्रयोगश्च लोमभिः हृष्टमिति तथाऽत्रापीत्यर्थः ।
आदितः ।। ४. ४. ७१ ॥
श्राकारानुबन्धाद्धातोः परयोः क्तयोरादिरिट् न भवति ।
जिमिदा- मित्र : मिन्नधान्, शिक्ष्विक्ष-क्षिण्णः, विष्णवान्, निविदा-स्विन्नः, स्विनवान् श्क्तिाश्वित्तः, श्वित्तवान्, आदितां धातूनां भावारम्भे वेट्स्वादन्यत्र 'वेटोऽपतः'