________________
पाद-४, सूत्र ५६ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[१८७
शिशृत्सिता, शिशृत्सितव्यम् । कृप,-कल्प्स्यति, प्रकल्प्स्यत् , चिक्लप्सति, चिक्लप्सिता, चिक्लप्सितुम् , चिक्लप्सितव्यम् , कल्प्ता, कल्प्तारौ, कल्प्तारः, कल्प्तासि, कल्प्तास्थ:, कल्प्तास्थ, कल्प्तास्मि, कल्प्तास्वः, कल्प्तास्मः । स्यन्दिकृपोरौदिल्लक्षणो विकल्पः परत्वादनेन बाध्यते । अनात्मने इत्येव ? वतिता, कल्पितव्यम् । स्यादावप्येषां पाक्षिकत्वात् अनात्मनेपदनिमित्तत्वस्य यत्र तन्नास्ति तत्रेड भवत्येव । तिष्यते, प्रतिष्यत, विवतिषते, विवतिषितुम् , वितिषितव्यम् , अधिष्यते, अधिष्यत, विधिषते, विद्धिषितुम् , विवर्षिषितव्यम् , शधिष्यते. अधिष्यत, शिधिषते, शिधिषितुम् , शिशधिषितव्यम् ।
___ स्यन्दिकृपोरौदित्त्वाद्विकल्पः । स्यन्त्स्यते, स्यन्दिप्यते, अस्यन्त्स्यत, अस्यन्दिष्यत, सिस्यन्त्सते, सिस्यन्दिषते, सिस्यन्त्सितुम्, सिस्यन्दिषितुम्, कल्प्स्यते, कल्पिष्यते, अकल्प्स्यत, अकल्पिष्यत, चिक्रप्सते, चिकल्पिषते चिक्लप्सितुम्, चिकल्पिषितुम्, कल्प्ता, कल्पिता, कल्प्तासे, कल्पितासे, कल्प्ताहे, कल्पिताहे । विवृत्सितेवाचरति, विवृत्सित्रीयते इत्यादौ तु पूर्ववत प्रतिषेधः, एके तु वदभ्यः स्यसनोः कृपः श्वस्तन्यां चात्मनेपदाभावे इटप्रतिषेधमिच्छन्ति । तन्मते,-विवृत्सिता, विवृत्सितुम्, विवृत्सितव्यमित्यादौ अनात्मनेपदनिमित्तस्वाभावपक्षेऽपि इट् न भवति ॥५५।।
न्या० स०-न वृद्भ्यः आत्मनेपदनिमित्तं चेति-नन्वऽमीषामात्मनेपदिनामनात्मनेपदनिमित्तत्वं कथमित्याशङ्कयाह-स्यसनि श्वस्तन्यां चेति-'वृद्भ्यः स्यसनोः' ३-३-४५ 'कृपः श्वस्तन्याम्' ३-३-४६ इति सूत्राभ्यामित्यर्थः ।
स्यादावपीति-स्यसनि श्वस्तन्यां चेत्यर्थः । अनात्मनेपदनिमित्तत्वाभावपक्षेपोतिअत्र हि प्रकृतिरात्मनेपदविषया।
एकस्वरा-केचिद्विषिपुषिश्लिषिमात्रादिति-विष्लुकी विषश् श्लिषंच् श्लिष्षु इत्येतेभ्यः । युरुक्ष्विति-शीक्षुसाहचर्यात् यु रु इत्यतयोरादादिकयोर्ग्रहणं न रुङ रोषणे च युंग्श् बन्धने इत्येतयोः । स्वरान्ता धातव इति स्वरान्ताः किंविशिष्टाः ये पाठे एकस्वरास्तेऽनुस्वारेत इत्यर्थः ।
एकस्वरादनुस्वारेतः ॥ ४. ४.५६॥ • एकस्वरादनुस्वारेतो धातोविहितस्य स्ताद्यशित प्रादिरिट न भवति ।
पा-पाने, पाता, पातुम् । 'चक्षो वाचि क्शांग् ख्यांग' ( ४-४-४ ) आफ्शाता, आख्याता, जि,-जेता, जेतुम् , णींग , नेता, नेतुम् , अज़ेवी,-प्रवेता, प्रवेतुम्, इंङ्को गी,अध्यगीष्ट, श्रृं श्रोता, श्रोतुम , स्म-स्मर्ता, स्मर्तुम , शक्लट् शकीच वा,-शक्ता, शक्तुम् । शक्यतेरिटमिच्छन्त्येके । शकिता, वचंक् ब्रूगादेशो वा, वक्ता, वक्तुम् । विपी,-विवेक्ता, विवेक्तुम् , रिचपी,-रेक्ता, रेक्तुम् , डुपची ,-पक्ता, पक्तुम् , षिचीत , सेक्ता, सेक्तुम् , मुचलन्ती,-मोक्ता, मोक्तुम् , प्रच्छंद ,-प्रष्टा, प्रष्टुम् , भ्रस्जीत ,-भ्रष्टा, भष्र्टा, भ्रष्टुम् , भष्टुम् , टु मस्जोंद ,-मङ्क्ता, मङ्क्तुम् , भुजोंद भुजंप वा, भोक्ता, भोक्तुम् , युजिच् युजपी वा, योक्ता, योक्तुम् , यजी-यष्टा, यष्टुम् , वजिव , परिष्वङ्क्ता परिष्वङ्क्तुम् ।